SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ तीन्द्रियभूतभव्यभविष्यदर्थविषयस्फुटप्रतिभासप्रकाशनीयमभिहितं वस्तु 'आहंसुत्ति आख्यातवान् ‘ज्ञात18|कुलनन्दनः' ज्ञाता:-क्षत्रियविशेषाः तत्कुलनन्दनः-तद्वंशसमृद्धिकरः महात्मेति प्रतीतं, जिनस्तु-जिन एव वीरवरनामधेयः-वीरवरेति प्रशस्तनामा, तथा कथितवांश्च प्राणवधस्य फलविपाक, अध्ययनार्थस्य महावीराभिहितत्वे प्रतिपादितेऽपि यत् पुनस्तत्फलविपाकस्य वीरकथितत्वाभिधानं तत्प्राणवधस्यैकान्तिकाशुभफलत्वेनात्यन्तपरिहाराविष्करणार्थमिति, अथ शास्त्रकारः प्राणवधस्य खरूपं प्रथमद्वारोपदर्शितमपि निगमनार्थं | पुनदर्शयन्नाह-एष स प्राणवधोऽभिहितः योऽनन्तरं स्वरूपतः पर्यायतः विधानतः फलतः कर्तृतश्च वक्तुं प्रति-8 ज्ञात आदावासीत्, किम्भूत इत्याह-चण्डः-कोपनः तत्प्रवर्तितत्वाचण्डः रौद्ररसप्रवर्तितत्वात् रौद्रः क्षुद्रजनाचरितत्वात् क्षुद्रः अनार्यलोककरणीयत्वादनार्यः घृणाया अत्राविद्यमानत्वान्निघृणः निःशूकजनकतत्वान्नृशंसः महाभयहेतुत्वात् महाभयः 'बीहणउत्ति भयान्तरप्रवर्तितत्वात् त्रासकः उत्रासहेतुत्वात् अ-18 न्याय्यो-न्यायादपेतत्वात् उद्धेजनकश्च उद्वेगहेतुत्वात् निरवकाङ्क्षः परप्राणापेक्षावर्जित इत्यर्थः, निर्द्धर्मो-ध दिपक्रान्तः निष्पिपासः-वध्यं प्रति लेहविरहात् निष्करुणो-विगतदयः निरयवासगमननिधन इति व्यक्तं मोहमहाभयप्रकर्षकः-तत्प्रवर्तकः मरणेन वैमनस्य-दैन्यं यत्र स मरणवैमनस्यः । प्रथममधर्मद्वारं-मृषावादाद्यपेक्षयेदमाद्यमाश्रवद्वारं समाप्त-तवक्तव्यतापेक्षया निष्ठां गतं इतिशब्दः समाप्तौ ब्रवीमि-प्रतिपादयामि तीर्थकरोपदेशेन न खमनीषिकयेति, एतच सुधर्मस्वामी जम्बूस्वामिनः खवचसि सर्वज्ञवचना Jain Education For Personal & Private Use Only anelbrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy