________________
त्रयस्य द्वन्द्वैकत्वं ततस्तत्र च सति, अनेन च रोगातङ्कनिदानमुक्तं, तथा उदयप्राप्ते-उदिते सति, केत्याहउज्ज्वलं-सुखलेशवर्जितं बलं-बलवत् कष्टोपक्रमणीयं विपुलं-विपुलकालवेद्यं त्रितुलं वा-त्रीन् मनःप्रभृतीन तुलयति-तुलामारोपयति कष्टावस्थीकरोतीति वितुलं कर्कशं-कर्कशद्रव्यमिवानिष्टं प्रगाढं-प्रकर्षवत् यहुःखं-असुखं तत्तथा तत्र, किंभूते इत्याह-अशुभः असुखो वा कटुकद्रव्यमिवानिष्टः परुषः-परुषस्पर्शद्रव्यमिवानिष्ट एव चण्डो-दारुणः फलविपाक:-कार्यनिष्ठा दुःखानुबन्धलक्षणो यस्य तत्तथा तत्र, महद्भयं यस्मात्तन्महाभयं तत्र जीवितान्तकरणे-सर्वशरीरपरितापनकरे न कल्पते-न युज्यते, तादृशेऽपि-रोगातश्रादौ यादृशो न सोढुं शक्यते 'तह'त्ति तेन प्रकारेण पुष्टालम्बनं विना, सालम्बनस्य पुनः कल्पत एव, यतः-"काहं अछित्तिं अदुवा अहीहं, तवोवहाणेसु य उज्जमिस्सं । गणं व णीईएँ उ सारविस्सं, सालम्बसेवी समवेड मुक्खं ॥१॥" [करिष्याम्यच्छित्तिमथवाऽध्येष्ये तपउपधानयोश्चोद्यस्यामि । गणं वा नीत्याप्रवर्त्तयिष्यामि सालम्बनसेवी समुपयाति मोक्षं ॥१॥] आत्मने परस्मै वा निमित्तं औषधभैषज भक्तपानं च तदपि न सन्निधिकृतं-सञ्चयीकृतं परिग्रहविरतत्वात् यदपि च श्रमणस्य सुविहितस्य तुशब्दो भाषामात्रे पतग्रहधारिणः-सपात्रस्य भवति भाजनं च-पात्रं भाण्डं च-मृन्मयं तदेव उपधिश्च-औधिकः उपकरणं च-औपग्रहिकं अथवा भाजनं च भाण्डं चोपधिश्चेत्येवंरूपमुपकरणं भाजनं भाण्डोपध्युपकरणं, तदेवाह-पतद्ग्रहः-पात्रं पात्रबन्धनं-पात्रबन्धः पात्रकेसरिका-पात्रप्रमार्जनपोतिका पात्रस्थापन-पत्र कम्ब-15
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org