________________
॥ अहम् ॥ चान्द्रकुलीनश्रीमदभयदेवाचार्यदृब्धव्याख्यायुतम् । श्रीप्रश्नव्याकरणदशासूत्रम् ।
श्रीवर्द्धमानमानम्य, व्याख्या काचिद् विधीयते । प्रश्नव्याकरणाङ्गस्य, वृद्धन्यायानुसारतः ॥१॥
अज्ञा वयं शास्त्रमिदं गभीरं, प्रायोऽस्य कूटानि च पुस्तकानि ।
सूत्रं व्यवस्थाप्यमतो विमृश्य, व्याख्यानकल्पादित एव नैव ॥२॥ अथ प्रश्नव्याकरणाख्यं दशमाङ्गं व्याख्यायते-अथ कोऽस्याभिधानस्यार्थः?, उच्यते, प्रश्ना:-अङ्गुष्ठादिप्रश्नविद्यास्ता व्याक्रियन्ते-अभिधीयन्तेऽस्मिन्निति प्रश्नव्याकरणं, कचित् 'प्रश्नव्याकरणदशा' इति दृश्यते, तत्र
१ मदुकादितो व्याख्यानरचनायाः नैव सूत्र व्यवस्थाप्यं किं तु विमृश्य व्यवस्थाप्यमित्यर्थः,
प्र.व्या.१
Tendean
For Personal & Private Use Only
indibrary.org