________________
नीयं गुणान्नयति-प्रापयतीति गुणनायकमेकं - अद्वितीयमसदृशं, 'मोक्खपहस्सऽवडिंसगभूअं' मोक्षपथस्यसम्यग्दर्शनादेरवतंसकभूतं - शेखरकल्पं प्रधानमित्यर्थः इति दोधकार्थः ॥ तथा येन शुद्धचरितेन सम्यगासे वितेन भवति सुब्राह्मणो यथार्थनामत्वात् सुश्रमणः - सुतपाः सुसाधुः - निर्वाणसाधक योग साधकः तथा 'सइसित्ति स यथोक्तऋषिर्यथावद्वस्तुद्रष्टा यः शुद्धं चरति ब्रह्मचर्यमिति योगः 'स मुणि'त्ति स यथोक्तो मुनिः - मन्ता स संयतः - संयमवान् स एव भिक्षुः- भिक्षणशीलो यः शुद्धं चरति ब्रह्मचर्यमिति, अब्रह्मचारी तु न ब्राह्मणादिरिति, आह च - "सकलकलाकलापकलितोऽपि कविरपि पण्डितोऽपि हि प्रकटित सर्वशास्त्रतवोऽपि हि वेदविशारदोऽपि हि । मुनिरपि वियति विततनानाद्भुतविभ्रमदर्शकोऽपि हि स्फुटमिह जगति तदपि न स कोऽपि हि यदि नाक्षाणि रक्षति ॥ १ ॥” तथा इदं च वक्ष्यमाणं पार्श्वस्थशीलकरणं अनुचरता ब्रह्मचर्यं वर्जयितव्यानीत्यस्य वक्ष्यमाणपदस्य वचनपरिणामात् वर्जयितव्यमिति योगः, किम्भूतं ? - रतिश्चविषयगो रागश्च - पित्रादिषु स्लेहरागो द्वेषश्च प्रतीतो मोहश्च - अज्ञानमेषां प्रवर्द्धनं करोति यत्तत्तथा, किं मध्यं यस्य तत्किमध्यं - किंशब्दस्य क्षेपार्थत्वादसारमित्यर्थः, प्रमाद एव दोषो यतः तत्तत्प्रमाददोषं, पार्श्वस्थानां-ज्ञानाचारादिवहिर्वर्त्तिनां साध्वाभासानां शीलं - अनुष्ठानं निष्कारणं शय्यातरपिण्डपरिभोगादि पार्श्वस्थशीलं ततः पदत्रयस्य कर्मधारयस्तस्य करणं- आसेवनं यत्तत्तथा एतदेव प्रपञ्चयते - अभ्यञ्जनानि च घृतवशात्रक्षणादिना तैलमज्जनानि च तैलनानानि तथा अभीक्ष्णं - अनवरतं कक्षाशीर्षकरचरणवदनानां
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org