________________
हिंसन्तीति, तथा अगारं-गेहं 'परियारो'त्ति परिचारो-वृत्तिः खड्गादिकोशो वा भक्ष्याणि-मोदकादीनि | खरविशदमभ्यवहार्य भक्ष्य मिति वचनात् भोजनानि-ओदनादीनि शयनानि शय्याः आसनानि-विष्ट-| राणि फलकानि-अवष्टम्भनद्यूतादिनिमित्तानि मुशलान्युखलाश्च प्रसिद्धाः ततानि-वीणादीनि विततानि -पटहादीन्यातोद्यानि-वाद्यानि वहनानि-यानपात्राणि वाहनानि-शकटादीनि मण्डपाः प्रतीताः विविध४ भवनानि-चतुःशालादीनि तोरणानि प्रतीतानि विटङ्कः-कपोतपाली देवकुलं प्रतीतं जालक-छिद्रान्वितो
गृहावयवविशेषः अर्द्धचन्द्रः-सोपानविशेषः नियूहक-द्वारोपरितनपार्श्वविनिर्गतदारु चन्द्रशालिका-प्रासादोपरितनशाला वेदिका-वितर्दिका निःश्रेणिः-अवतरणी द्रोणी-नौः चङ्गेरी-महती काष्ठपात्री बृहत्पलिका वा कीला:-शङ्कवः मेठका:-मुण्डकाः सभा-आस्थायिका प्रपा-जलदानमण्डप आवसथ:-परिव्राजकाश्रयः गन्धाः-चूर्णविशेषाः माल्यं-कुसुममनुलेपनं-विलेपनं अम्बराणि-वस्त्राणि यूपो-युगं लागलं-शीरं 'मतिय'त्ति मतिकं येन कृष्ट्वा क्षेत्रं मृद्यते कुलिकं-हलप्रकारः स्यन्दनो-रथविशेषो, यतो द्विविधो रथ:साङ्ग्रामिको देवयानरथश्च, तत्र साङ्ग्रामिकस्य कटीप्रमाणा वेदिका भवति, शिविका-पुरुषसहस्रवाहनीयः कूटाकारशिखराच्छादितो जम्पानविशेषः रथः-प्रसिद्धः शकट-गन्त्री यानं-तद्विशेषः युग्यं-गोल्लदेशप्रसिद्धो द्विहस्तप्रमाणो वेदिकोपशोभितो जम्पानविशेष एव अद्यालकः-प्राकारोपरिवर्ती आश्रयविशेषः चरिकानगरप्राकारान्तरालेऽष्टहस्तप्रमाणो मार्गः द्वारं-प्रतीतं गोपुरं-पुरद्वारं परिधा-अर्गला यत्राणि-अरघट्टादि
प्र.व्या.३
Jain Educati
o
nal
For Personal & Private Use Only
D
inelibrary.org