________________
तापतो दम्पतिरमणाश्रयो वनविशेषः कन्दरा-दरी आकरो-लोहायत्पत्तिस्थानं गिरिगुहा-प्रतीता कर्मअन्तयत्र सुधादि परिकम्यते उद्यानं-पुष्पादिमवक्षसङ्कलमुत्सवादी बहुजनभोग्यं यानशाला-रथादिगृहं कुापतशाला-तूल्यादिगृहोपस्करशाला मण्डपो-यज्ञादिमण्डपः शून्यगृहं श्मशानं च प्रतीतं लयन-शैलगृह
पण:-पण्यस्थान एतेषां समाहारद्वन्द्वस्ततस्तत्र अन्यस्मिंश्चैवमादिके-एवंप्रकारे उपाश्रये भवति विहर्तव्यमिति सम्बन्धः, किंभूते?-इक-उदकं मृत्तिका-प्रथिवीकायः बीजानि-शाल्यादीनि हरित-दोदिवनस्पतिस्त्रसप्राणा-दीन्द्रियादयः तैरसंसक्तः-असंयक्तो यः स तथा तत्र, यथाकृते-गृहस्थेन स्वार्थ निवेत्तिते 'फासुए'त्ति पूर्वोक्तगुणयोगादेव प्रामुके-निर्जीव विविक्ते-ख्यादिदोषरहिते अत एव प्रशस्ते उपाश्रये व|सतो भवति विहर्त्तव्यं-आसितव्यं, यादृशे पनासितव्यं तथाऽसावुच्यते-'आहाकम्मबहुले य'त्ति आधया &-साधूनां मनस्याधानेन साधूनाश्रित्येत्यर्थः यत्कर्म-पृथिव्याद्यारम्भक्रिया तदाधाकर्म, आह च-"हिय
यमि समाहेउं एगमणेगं च गाहगं जं तु । वहणं करेह दाया कायाण तमाहकम्मं तु ॥१॥" [हृदये समाधायैकमनेकं च ग्राहकं यत्तु । वधं करोति दाता कायानां तदाधाकर्म ॥१॥] तेन बहुल:-प्रचुरस्तद्वा बहुलं यत्र स तथा, 'जे से त्ति य एवंविधः स वर्जयितव्य एवोपाश्रय इति सम्बन्धः, अनेन मूलगुणाशुद्धस्य परिहार उपदिष्टः, तथा 'आसियत्ति आसिक्तं-आसेचनमीबद्दकच्छट्टक इत्यर्थः 'संमज्जियत्ति सम्मार्जनंशलाकाहस्तेन कचबरशोधनं उत्सितं-अत्यर्थ जलाभिषेचनं 'सोहियत्ति शोभनं चन्दनमालाचतुष्कपू
Jain Education International
For Personal & Private Use Only
aw.jamelibrary.org