SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ *-5 -%ASRA-25 नादत्तरूपत्वादिति, अदत्तलक्षणं हीदं-'सामीजीवादत्तं तित्थयरेणं तहेव य गुरूहि ति [खामिजीवादत्ते तीर्थकरेण च तथैव गुरुभिः] तथा परस्य-आचार्यग्लानादेर्व्यपदेशेन-व्याजेन यच्च गृह्णाति-आदत्ते वैयावृ-13 त्यकरादिस्तत्तेनान्येन च वर्जयितव्यं, आचार्यादेरेव दायकेन दत्तत्वादिति, न परस्य-परसम्बन्धि नाशयतिमत्सरादपढते यच्च सुकृतं-सच्चरितमुपकारं वा तत्सुकृतनाशनं वर्जयितव्यं, तथा दानस्य चान्तरायिक-विघ्नो दानविप्रणाशो दत्तापलापः, तथा पैशून्यं चैव-पिशुनकर्म मत्सरित्वं च-परगुणानामसहनं तीर्थङ्कराद्यननुज्ञातत्वाद्वर्जनीयमिति, तथा 'जेऽविए'त्यादि योऽपि च पीठफलकशय्यासंस्तारकवस्त्रपात्रकम्बलमुखपोतिकापादप्रोञ्छनादिभाजनभाण्डोपध्युपकरणं प्रतीत्येति गम्यते अविसंविभागी-आचार्यग्लानादीनामेषणागुणविशुद्धिलब्धं सन्न विभजतेऽसौ नाराधयति व्रतमिदमिति सम्बन्धः, तथा 'असंगहरुइ'त्ति गच्छोपग्रहकरस्य-पीठादिकस्योपकरणस्यैषणादोषविमुक्तस्य लभ्यमानस्यात्मभरित्वेन न विद्यते सङ्घहे रुचिर्यस्वासावसशहरुचिः, 'तववइतेणे यत्ति तपश्च वाक् तपोवाचौ तयोः स्तेन:-चौरस्तपोवाक्स्तेना, तत्र स्वभावतो दुर्बलाङ्ग-1 मनगारमवलोक्य कोऽपि कञ्चन व्याकरोति-यथा भोः! साधो स त्वं यः श्रूयते तत्र गच्छे मासक्षपकः?, एवं पृष्टे यो विवक्षितक्षपकोऽसन्नप्याह-एवमेतत्, अथवा धूर्ततया ब्रूते-भोः श्रावक! साधवः क्षपका एव भवन्ति, श्रावकस्तु मन्यते-कथं स्वयमात्मानमयं भट्टारकः क्षपकतया निःस्पृहत्वात् प्रकाशयतीति कृत्वैवंविधमात्मोद्धत्यपरिहारपरं सकलसाधुसाधारणं वचनमाविःकरोतीत्यतः स एवायं यो मया विवक्षित इत्येवं पर Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy