SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ वा-अक्षया या तृष्णा-विद्यमानद्रव्याव्ययेच्छा तया यदनुगतं महेच्छं च-अविद्यमानद्रव्यविषये महाभिलाषं यन्मनो-मानसं वचनं च-वाक् ताभ्यां यत्कलुषं-परधनविषयत्वेन पापरूपमादानं-ग्रहणं तत्सुष्ठ निगृहीतंनियमितं यत्र तत्तथा, सुसंयमितमनसा-संवृतेन चेतसा हेतुना हस्तौ च पादौ च निभृतौ-परधनादानव्यापारादपरतौ यत्र तत्सुसंयमितमनोहस्तपादनिभृतं, अनेन च विशेषणद्वयेन मनोवाकायनिरोधः परधनं प्रति दर्शितः, तथा निर्ग्रन्थं-निर्गतबाह्याभ्यन्तरग्रन्थं नैष्ठिकं-सर्वधर्मप्रकर्षपर्यन्तवर्ति नितरामुक्तं सर्वज्ञैरुपादेयतयेति निरुक्तं अव्यभिचरितं वा निराश्रवं-कर्मादानरहितं निर्भयं-अविद्यमानराजादिभयं विमुक्तंलोभदोषत्यक्तं उत्तमनरवृषभाणां 'पवरबलवग'त्ति प्रधानबलवतां च सुविहितजनस्य च-सुसाधुलोकस्य सम्मतं-अभिमतं यत्तत्तथा, परमसाधूनां धर्मचरणं-धर्मानुष्ठानं यत्तत्तथा, यत्र च तृतीये संवरे ग्रामाकरनगरनिगमखेटकर्बटमडम्बद्रोणमुखसंवाहपत्तनाश्रमगतं च ग्रामादिव्याख्या पूर्ववत् किश्चिद्-अनिर्दिष्टखरूपं द्रव्यं, तदेवाह-मणिमौक्तिकशिलाप्रवालकांस्यदृष्यरजतवरकनकरत्नादि, किमित्याह-पतितं-भ्रष्टं 'पम्हु-४ हति विस्मृतं विप्रणष्टं-खामिकैर्गवेषयद्भिरपि न प्राप्तं न कल्पते-न युज्यते कस्यचित् असंयतस्य संयतस्य वा कथयितुं वा-प्रतिपादयितुं अदत्तग्रहणप्रवर्त्तनं मा भूदितिकृत्वा ग्रहीतुं वा-आदातुं तन्निवृत्तत्वात्साधोः, यतः साधुनैवंभूतेन विहर्त्तव्यमित्यत आह-हिरण्यं-रजतं सुवर्ण च-हेम ते विद्यते यस्य स हिरण्यसुवर्णिकस्तन्निषेधेनाहिरण्यसुवर्णिकस्तेन, समे-तुल्ये उपेक्षणीयतया लेष्टुकाश्चने यस्य स तथा तेन, अपरिग्रहो For Personal & Private Use Only A n elibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy