________________
हणंति रतीय हणंति हस्सवेरारती य हणंति कुद्धा हणंति लुद्धा हणंति मुद्धा हणंति कुद्धा लुद्धा मुद्धा
हणंति अत्था हणंति धम्मा हणंति कामा हणंति अत्था धम्मा कामा हणंति (सू० ३) 'तं चेत्यादि, यस्य स्वरूपं नामानि चानन्तरमुक्तानि तं प्राणवधमित्युत्तरेण पदेन सम्बन्धः, चकारो विशेषणार्थः विशेषणं च कर्तृ कारकं, पुनःशब्दो भाषामात्रे, कुर्वन्ति-विदधति, केचिदिति-केचिदेव जीवाः न पुनः सर्वे, कीदृशा इत्याह-पापा:-पातकिनः, त एव विभज्यन्ते-असंयता:-असंयमवन्तः अविरता:-न विशेषतो ये तपोऽनुष्ठाने रताः 'अनिहुयपरिणामदुप्पयोगीति अनिभृतः-अनुपशमपरः परिणामो येषां ते तथा, दुष्प्रयोगा:-दुष्टमनोवाकायव्यापारा येषां सन्ति ते तथा, ततः पदद्वयस्य कर्मधारयः, प्राणिवधं-प्राणातिपातं किंभूतं?-बहुविधं भयङ्करं, पाठान्तरेण भयङ्करं, तथा 'बहुविधा' बहवः प्रकारा यस्य स तथा तं, सप्रभेदभेदयुक्तमित्यर्थः, किंभूतास्ते?-परदुःखोत्पादनप्रसक्ताः, तथा 'इमेहिं एतेषु प्रत्यक्षेषु त्रसस्थावरेषु जीवेषु प्रतिनिविष्टा:-तदरक्षणतस्तेषु वस्तुतो द्वेषवन्तः 'किं तेत्ति कथं तं प्राणवधं कुर्वन्तीत्यर्थः, तद्यथेति वा-पाठीणे'त्यादि, पाठीना-मत्स्यविशेषाः तिमयस्तिमिङ्गलाश्च-महामत्स्या महामत्स्यतमाः अनेकझषा:-विविधमतस्याः सूक्ष्ममत्स्यखलमत्स्ययुगमत्स्यादयः विविधजातयो-नानाजातीया मण्डूका द्विविधाः कच्छपा:-मांसकच्छपअस्थिकच्छपभेदात् नका-मत्स्यविशेषा एव 'मकरदुविह'त्ति मकरा-जलचरविशेषाः सुंडामकरमत्स्यमकरभेदेन द्विभेदा ग्राहा-जलजन्तुविशेषा एव दिलिवेष्टमन्दुकसीमाकारपुलकास्तु ग्राहभेदा एव सुं
Jain Educat
onal
For Personal & Private Use Only
Kinjainelibrary.org