________________
MERGANAGAR
- अणस्थको २८ आसत्ती २९ असंतोसोत्तिविय ३०, तस्स एयाणि एवमादीणि नामधेजाणि होति
तीस (सू०१८) तस्य च नामानीमानि गौणानि भवन्ति त्रिंशत्, तद्यथा-परिगृह्यत इति परिग्रहः-शरीरोपध्यादिः परिग्रहणं वा परिग्रहः-स्वीकारः१ संचीयत इति सञ्चयनं वा सञ्चयः २ एवं चयः ३ उपचयो ४ निधानं ५ सभ्रियते-धार्यते सम्भरणं वा-धारणं सम्भारः ६ सङ्कीर्यते सङ्करणं वा-सम्पिण्डनं सङ्करः ७ एवमादरः८ पिण्डः पिण्डनीय पिण्डनं वा ९ द्रव्यसारो-द्रव्यलक्षणसारः १० तथा महेच्छा-अपरिमितवाञ्छा ११ प्रतिबन्धः-अभिष्वङ्गः१२ लोभात्मा-लोभस्वभावः १३ महती इच्छा, कचित् 'महद्दीति पाठः तत्र 'अई गतौ या-| चने चेति वचनादर्दिः-याचा महती-ज्ञानोपष्टम्भादिकारणविकलवादपरिमाणा अमिहार्दिः १४ उपकरणं -उपधिः १५ संरक्षणा-अभिष्वङ्गवशाच्छरीरादिरक्षणं १६ भारो-गुरुताकरणं १७ सम्पातानां-अनर्थमलीकानामुत्पादकः संपातोत्पादकः १८ कलीनां-कलहानां करण्ड इव-भाजनविशेष इव कलिकरंडः १९ प्रविस्तारो-धनधान्यादिविस्तारः २० अनर्थः-अनर्थहेतुत्वात् २१ संस्तवः-परिचयः स चाभिष्वङ्गहेतुत्वात्परिग्रहः २२ अगुप्तिः-इच्छाया अगोपनं २३ आयासः-खेदः तद्धेतुत्वात्परिग्रहोऽप्यायास उक्तः, आह च-"वहबंधणमारण [सेहणाउ काओ परिग्गहे नत्थि? । तं जइ परिग्गहुच्चिय जइधम्मो तो नणु पवंचो॥१॥] [वधबन्धनमारणशिक्षणाः काः परिग्रहे न सन्ति । तथापि यदि परिग्रह एव तर्हि यतिधर्मो ननु प्रपञ्चः॥१॥]
CA
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org