SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ च प्रतीतानि वाहनानि च-यानपात्राणि 'कुविय'त्ति कुप्यानि च गृहोपस्कराः खटा-तुल्यादयः धनानि चगणिमादीनि धान्यपानभोजनाच्छादनगन्धमाल्यभाजनभवनानि च प्रतीतानीति द्वन्द्वस्ततस्तेषां विधिः-कार्य साध्यमिति तत्पुरुषः अतस्तं चैव बहुविधिक-अनेकप्रकारं, तथा भरतं-क्षेत्रविशेषं नगाः-पर्वताः नगराणिकरवर्जितानि निगमा-वणिजां स्थानानि जनपदा-देशाः पुरवराणि-नगरैकदेशभूतानि द्रोणमुखानि-जलस्थलपथोपेतानि खेटानि-धूलीप्राकारोपेतानि कर्बटानि-कुनगराणि मडम्बानि-दरस्थवसिमान्तराणि संवाहाः- स्थापन्यः पत्तनानि-जलस्थलपथयोरन्यतरयुक्तानि तेषां यानि सहस्राणि तैर्मण्डितं यत्तत्तथा. स्तिमितमेदिनीकं-निर्भयमेदिनीनिवासिजनं एकच्छत्रं एकराजकमित्यर्थः ससागरं समुद्रान्तमित्यर्थः भुक्त्वापरिभुज्य तथा वसुधां-पृथिवीं भरतैकदेशभूतां च भुक्त्वा एतद्भोगेऽपीत्यर्थः "अपरिमियमणंतण्हमणुगयमहेच्छसारनिरयमूलो'त्ति अपरिमितानन्ता-अत्यन्तानन्ता तृष्णा-प्राप्तार्थसंरक्षणरूपा या चानुगता-सन्तता महती चेच्छा-अप्राप्तार्थाभिलाषरूपा ते एव साराणि-अक्षय्याणि निरयानि-निर्गतशुभफलानि मूलानि-जटा यस्य परिग्रहतरोः अथवा अपरिमिताऽनन्ततृष्णया या अनुगता महेच्छा सारा निरया च-नरकहेतुर्विशिष्टवेगा वा सैव मूलं यस्य स तथा, इह च मकारौ प्राकृतशैलीप्रभवी एवंविधसमासश्चेति, लोभः प्रतीतः कलि:-सङ्ग्रामः कषाया:-क्रोधमानमाया एत एव महान् स्कन्धो यस्य स तथा, इह च कषायग्रहणेऽपि यल्लोभग्रहणं तत्तस्य प्रधानत्वापेक्षं, तथा चिन्ताश्च-चिन्तनानि आयासाश्च-मनाप्रभृतीनां खेदाः त Bain Education Internas For Personal & Private Use Only www.jainelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy