SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ पुलामनुभूय विक्रोशन्त:-परानाकोशन्तः विगतकोशान्ता वा बलेन मत्ता इति व्यक्तं तेऽपि च एवंविधा अपि उपनमन्ति मरणधर्ममवितृप्ताः कामानामिति । 'भुज्जो'त्ति तथा उत्तरकुरुदेवकुरूणां यानि वनविवराणि तेषु दिपादैः-वाहनाभावाचरणैर्विचरन्ति येते तथा नरगणाः-नृसमूहाः भोगैरुत्तमाः भोगोत्तमः भोगसूचकानि लक्ष णानि-खस्तिकादीनि धारयन्तीति भोगलक्षणधराः भोगैः सश्रीका:-सशोभाः भोगसश्रीकाः, प्रशस्तं सौम्यं प्रतिपूर्ण रूपं-आकृतिर्येषां तेऽत एव दर्शनीयाश्च-दर्शनार्दाश्च येते तथा, सुजातसर्वाङ्गसुन्दराङ्गा इति पूर्ववत्, रक्तोत्पलपत्रवत् कान्तानि करचरणानां कोमलानि च तलानि-अधोभागा येषां ते तथा, सुप्रतिष्ठिताःसत्प्रतिष्ठावन्तः कूर्मवत्-कच्छपवच्चारवश्चरणा येषां ते तथा, अनुपूर्वेण-परिपाव्या वर्द्धमाना हीयमाना वा इति गम्यते सुसंहता-अविरला अङ्गुल्यः-पादाग्रावयवा येषां ते तथा, वाचनान्तरे आनुपूर्व्यसुजातपीवरामुलीका प्रतीतं च, उन्नता:-तुङ्गाः तनवः-प्रतलाः ताम्रा-अरुणाः लिग्धाः-कान्तिमन्तो नखा येषां ते तथा, संस्थितौ-संस्थानविशेषवन्तौ सुश्लिष्टौ-सुघटनौ गूढी-मांसलत्वादनुपलक्ष्यौ गुल्फौ-घुण्टको येषां ते तथा, एणी-हरिणी तस्याश्चेह जङ्घा ग्राह्या कुरुविन्दः-तृणविशेषः वृत्तं च-सूत्रावलनकं एतानीव वृत्ते-वर्नुले आनुपूर्येण स्थूलस्थूले चेति गम्यं जडे-प्रसृते येषां ते तथा, अथवा एण्या-लायवः कुरुविन्दाः-कुटलिकास्तत्त्वग्वत् वृत्ता आनुपूर्येण जङ्घा येषां ते तथा, 'समुग्ग'त्ति समुद्गकतत्पिधानयोः सन्धिः तद्वन्निसर्गगूढौस्वभावतो मांसलत्वादनुन्नते जानुनी-अष्ठीवती येषां ते तथा, पाठान्तरेण समुद्गवत् निमुग्गे-निमग्ने अनुन्नते Jain Education Alinal For Personal & Private Use Only Alainelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy