________________
ष्ट
यतः
तस्य
खुप्पाता संक्श
णं
१८ 'पापकोवो यत्ति पाप-अपुण्यप्रकृतिरूपं कोपयति-प्रपञ्चयति पुष्णाति यः स पापकोप इति अथवा पापं चासौ कोपकार्यत्वात् कोपश्चेति पापकोपः चः समुच्चये १९ 'पापलोभो'त्ति पापं-अपुण्यं लभ्यति-प्राणिनि लियति संश्लिष्यतीतियावत् यतः स पापलोभः, अथवा पापं चासौ लोभश्च तत्कार्यत्वात्पापलोभः २० 'छविच्छेओ'त्ति छविच्छेदः-शरीरच्छेदनं तस्य च दुःखोत्पादनरूपत्वात् प्रस्तुतपर्यायविनाशकारणत्वाचोपचारात् प्राणवधत्वं, आह-"तप्पजायविणासो दुक्खुप्पातो य संकिलेसोय । एस वहो जिणभणिओ वजेयव्यो पयत्तेणं ॥१॥'ति, [तत्पर्यायविनाशो दुःखोत्पादश्च संक्लेशश्च । एष वधो जिनभणितो वर्जयितव्यः प्रयत्नेन ॥१॥] २१ जीवितान्तकरणः २२ भयंकरश्च प्रतीत एव २३ ऋणं-पापं करोतीति ऋणकरः |२४ 'वज्जो'त्ति वज्रमिव वजं गुरुत्वात् तत्कारिपाणिनामतिगुरुत्वेनाधोगतिगमनाद वय॑ते वा विवेकिभिरिति वर्जः, 'सावजो'त्ति पाठान्तरे सावद्यः-सपाप इत्यर्थः २५ 'परितावणअण्हउ'त्ति परितापनपूर्वक आश्रवः परितापनाश्रवः, आश्रवो हि मृषावादादिरपि भवति न चासौ प्राणवध इति प्राणवधसङ्ग्रहार्थमाश्रवस्य परितापनेति विशेषणमिति, अथवा प्राणवधशब्दं नामवन्तं संस्थाप्य शरीरोन्मूलनादीनि तन्नामानि सङ्कल्पनीयानि ततः परितापनेति पञ्चविंशतितमं नाम आश्रव इति षडिंशतितममिति २६ 'विनाश' इति प्राणानामिति गम्यते २७ 'णिज्झवण'त्ति नि:-आधिक्येन यान्ति प्राणिनः प्राणास्तेषां निर्याता-निर्गच्छतां प्रयोजकत्वं निर्यापना २८ 'लुंपण'त्ति लोपना-छेदनं प्राणानामिति २९ 'गुणानां विराधनेत्यपि चेति हिंस्यप्रा-1
-५
....... - KAMAC
प्र.व्या.२
JainEducationa l
For Personal & Private Use Only