________________
प्रश्नव्याकर० श्रीअ
भयदेव० वृत्तिः
॥ ६॥
Jain Education
|- देहायुष्केन्द्रियलक्षणेभ्यः प्राणेभ्यः पातना - जीवस्य अंसना त्रिपातना, उक्तं च- 'कायवहमणो तिण्णि उ अहवा देहाउइंदिअप्पाणा' इत्यादि, अथवा अतिशयवती यातना - प्राणेभ्यो जीवस्यातिपातना तीतपिधानादिशब्देष्विवाकारलोपात्, चकारोऽत्रापि समुच्चयार्थ इति १०, 'आरंभसमारंभो'त्ति आरभ्यन्ते - विना| श्यन्त इति आरम्भा - जीवास्तेषां समारम्भः - उपमर्दः अथवा आरम्भः कृष्यादिव्यापारस्तेन समारम्भोजीवोपमर्दः अथवा आरम्भो - जीवानामुपद्रवणं तेन सह समारम्भः परितापनमित्यारम्भसमारम्भः प्राणवधस्य पर्याय इति, अथवा आरम्भसमारम्भशब्दयोरेकतर एव गणनीयो, बहुसमरूपत्वादिति ११, 'आउकम्मस्सुवद्दवो भेदनिहवणगालणा य संवहगसंखेवो'त्ति आयुःकर्म्मण उपद्रव इति वा तस्यैव भेद इति वा तन्निष्ठापनमिति वा तद्गालनेति वा, चः समुच्चये, तत्संवर्त्तक इति वा, इह खार्थे कः, तत्सङ्क्षेप इति वा, प्राणवधस्य नाम, एतेषां च उपद्रवादीनामेकतरस्यैव गणनेन नाम्नां त्रिंशत्पूरणीया, आयुश्छेदलक्षणार्थापेक्षया सर्वेषामेकत्वादिति १२ मृत्युः १३ असंयमः १४ एतौ प्रतीतौ तथा कटकेन सैन्येन किलिञ्जेन वा आक्रम्य मर्द्दनं कटकमर्दनं, ततो हि प्राणवधो भवतीत्युपचारात् प्राणवधः कटकमद्दनशब्देन व्यपदिश्यत इति १५ 'वोरमणं'ति व्युपरमणं प्राणेभ्यो जीवस्य व्युपरतिः, अयं च व्युपरमणशब्दोऽन्तर्भूतकारितार्थः, प्राणवध पर्यायो भवतीति भावनीयं १६ 'परभवसङ्क्रमकारक' इति प्राणवियोजितस्यैव परभवे सङ्क्रान्तिसदुभावात् १७ दुर्गतौ नरकादिकायां कर्त्तारं प्रपातयतीति दुर्गतिप्रपातः दुर्गतौ वा प्रपातो यस्मात् स तथा
For Personal & Private Use Only
१ आश्रवे
वधना
मानि
॥६॥
ainelibrary.org