SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ प्र. व्या. १२ Jain Education I विष्यसी ॥ १ ॥ ति ६ बाधना बाधहेतुत्वात् केषामित्याह - 'पदानां संयमस्थानां प्रजानां वा - लोकानां, आह च - " यच्चेह लोकेऽघपरे नराणामुत्पद्यते दुःखमसह्यवेगम् । विकाशनीलोत्पलचारुनेत्रा, मुक्त्वा स्त्रियस्तत्र न हेतुरन्यः ॥ १ ॥ ७ दप्प - देहहसता तज्जन्यत्वादस्य दर्प इत्युच्यते, आह च - "रसा पगामं न निसेवियव्वा, पायं रसा दित्तिकरा हवंति । दित्तं च कामा समभिद्दवन्ति, दुमं जहा साउफलं तु पक्खी ॥ १ ॥ [रसाः प्रकामं न निषेवितव्याः प्रायो रसा दृप्तिकरा भवन्ति । दृप्तं च कामाः समभिद्रवन्ति द्रुमं यथा खादुफलं तु पक्षिणः ॥ १ ॥ ] अथवा दर्पः - सौभाग्याद्यभिमानस्तत्प्रभवं चेदं नहि प्रशमादैन्याद्वा पुरुषस्यात्र प्रवृत्तिः सम्भवतीति दर्प एवोच्यते, तदुक्तम् - "प्रशान्तवाहिचित्तस्य, सम्भवन्त्यखिलाः क्रियाः । मैथुनव्यतिरेकिण्यो, यदि रागं न मैथुनम् ॥ १ ॥" ८ मोहो-मोहनं वेदरूपमोहनीयोदय सम्पाद्यत्वादस्याज्ञानरूपत्वाद्वा मोह इत्युच्यते, आह् च - "दृश्यं वस्तु परं न पश्यति जगत्यन्धः पुरोऽवस्थितं, रागान्धस्तु यदस्ति तत्परिहरन् यन्नास्ति तत्पश्यति । कुन्देन्दीवर पूर्णचन्द्रकलश श्रीमल्लतापल्लवानारोप्याशुचिराशिषु प्रियतमागात्रेषु यन्मोदते ॥१॥" ९ मनः संक्षोभः - चित्तचलनं तद्विनेदं न जायते इति तदेवोच्यते, उच्यते च - "निक्कडक | डक्खकंडप्पहारनिभिन्नजोगसन्नाहां । महरिसिजोहा जुवईण जंति सेवं विगयमोहा ॥ १ ॥” [. निकृष्टकटाक्षकाण्डप्रहारनिर्भिन्नयोगसन्नाहाः। महर्षयो योद्धारो युवतीनां सेवां यान्ति विगतमोहाः ॥ १ ॥ उपशान्तमोहा अपि ] १० अनिग्रहः - अनिषेधो मनसो विषयेषु प्रवर्त्तमानस्येति गम्यते, एतत्प्रभवत्वाच्चास्यानिग्रह इत्युक्तं १९ For Personal & Private Use Only anelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy