SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ नस्यं दाखानि चात्मदोषेण ॥१॥] वधः-ताडनं बन्धः-संयमनं विघातो-मारणमेभिरपि दुष्करो विघातो यस्य तद्वन्धविघातदुर्विघातं, गाढरागाणां हि महापद्यप्यब्रह्मेच्छा नोपशाम्यति, आह च-"कृशः काणः खञ्जः श्रवणरहितः पुच्छविकला, क्षुधाक्षामो जीर्णः पिठरककपालार्पितगलः । ब्रणैः पूयक्लिन्नैः कृमिकुलचितैरावृततनुः, शुनीमन्वेति श्वा हतमपि च हन्त्येव मदनः ॥१॥" दर्शनचारित्रमोहस्य हेतुभूतं-तन्निमित्तं, ननु चारित्रमोहस्य हेतुरिदमिति प्रतीतं, यदाह-"तिव्वकसाओ बहुमोहपरिणओ रागदोससंजुत्तो । बंधइ चरित्तमोहं दविहंपि चरित्तगुणघाई ॥१॥” [तीवकषायो बहुमोहपरिणतो रागद्वेषसंयुक्तः बनाति चारित्रगुणघातिनं द्विविधमपि चारित्रमोहं ॥१॥] द्विविधं-कषायनोकषायमोहनीयभेदात्, यत्पुनर्दर्शनमोहस्य | हेतुभूतमिदमिति तन्न प्रतिपद्यामहे, तद्धेतुत्वेनाभणनात्, तथाहि-तद्धेतुप्रतिपादिका गाथैवं श्रूयते-'अरिदहंतसिद्धचेइअतवसुअगुरुसाहुसंघपडणीओ। बंधति दंसणमोहं अणंतसंसारिओ जेणं ॥१॥" [अहत्सि द्धचैत्यतपखिश्रुतगुरुसाधुसंघप्रत्यनीकः । बध्नाति दर्शनमोहमनन्तसंसारिको येन ॥१॥] भवतीतीह वाक्यशेषः, सत्यं, किन्तु स्वपक्षाब्रह्मासेवनेन या सङ्घप्रत्यनीकता तया दर्शनमोहं बनतोऽब्रह्मचर्य दर्शनमोहहेतुतां न व्यभिचरति, भण्यते च खपक्षाब्रह्मासेवकस्य मिथ्यात्वबन्धोऽन्यथा कथं दुर्लभबोधिरसाच- भिहितः, आह च-"संजइचउत्थभंगे चेइयव्वे य पवयणुड्डाहे । रिसिघाए य चउत्थे मूलग्गी बोहिलाभस्स ॥१॥"त्ति, [संयतीचतुर्थभने चैत्यद्रव्यभक्षणादौ च प्रवचनोड्डाहे । ऋषिघाते च चतुर्थे मूलेऽग्निर्वाधि Jain Educati o nal For Personal & Private Use Only (AUjainelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy