________________
श्रीस्थानाङ्गसूत्रवृत्तिः
॥ ३३३ ॥
* এ
'अरूवित्ति रूपं - मूर्त्तिर्वर्णादिमत्त्वं तदस्यास्तीति रूपी न रूपी अरूपी अमूर्त्त इत्यर्थः, तथा अजीवः - अचेतनः, शाश्वतः प्रतिक्षणं सत्ताऽऽलिङ्गितत्वादवस्थितः अनेन रूपेण नित्यत्वादिति, लोकस्यांशभूतं द्रव्यं लोकद्रव्यं, यत उक्तम् – “पंचत्थिकायमइयं लोगमणाइनिहणं । ” इति, [ पश्चास्तिकायमयं लोकमनादिनिधनं ] अथैतत्स्वरूपस्योक्तस्य प्रपञ्चनायानुक्तस्य चाभिधानायाह - 'समासतः' सङ्क्षेपतः पञ्चविधो, विस्तरस्त्वन्यथापि स्यात्, कथमित्याह - ' द्रव्यतो' द्रव्यतामधिकृत्य 'क्षेत्रतः' क्षेत्रमाश्रित्य एवं कालतो भावतश्च 'गुणतः' कार्यतः कार्यमाश्रित्येत्यर्थः, तत्र द्रव्यतोऽसावेकं द्रव्यं तथाविधैक परिणामादेकसङ्ख्याया एवेह भावात्, क्षेत्रतो लोकस्य प्रमाणं लोकप्रमाणं- असङ्ख्येयाः प्रदेशास्तत्परिमाणमस्येति लोकप्रमाणमात्रः, कालतो न कदाचिन्नासीदित्यादि कालत्रयनिर्देशः, एतदेव सुखार्थं व्यतिरेकेणाह - अभूच्च भ वति च भविष्यति चेति, एवं त्रिकालभावित्वाद्भुवो मा भूदेकसर्गापेक्षयैव ध्रुवत्वमिति सर्वदैवं भावान्नियतो मा भूदनेकसर्गापेक्षयैव नियतत्वमिति प्रलयाभावात् शाश्वतः, एवं सदाभावेनाक्षयः, पर्यायापगमेऽप्यनन्तपर्यायतयाऽव्ययः, एवमुभयरूपतया अवस्थितः अनेन प्रकारेणौघतो नित्य इति पूज्यव्याख्या, अथवा यत एव त्रैकालिकोऽसावत एव ध्रुवोऽवश्यं भावित्वादादित्योदयवत्, नियत एकरूपत्वात् शाश्वतः प्रतिक्षणं सत्त्वादत एवाक्षयोऽवयविद्रव्यापेक्षया अक्षतो वा परिपूर्णत्वात्, अव्ययोऽवयवापेक्षया अवस्थितो निश्चलत्वात्, तात्पर्यमाह - नित्य इति, अथवा इन्द्रशक्रादिशब्दवत्पर्यायशब्दा ध्रुवादयो नानादेशजविनेयप्रतिपत्त्यर्थमुपन्यस्ता इति, तथा गुणतः गमनं - गतिस्तद् गुणो-गतिपरिणामपरिणतानां जीवपुद्गलानां सहकारिकारणभावतः कार्य मत्स्यानां जलस्येव यस्यासौ गमनगुणो गमने वा गुणः- उप
Jain Education International
For Personal & Private Use Only
५ स्थाना० उद्देशः ३ धर्मास्ति
कायाद्याः
गतयः
सू० ४४१४४२
॥ ३३३ ॥
www.jainelibrary.org