________________
6646
मपि ददामि किञ्चित्प्रत्युपकाराय तद्दानम् ॥ १ ॥” इति १० । उक्तलक्षणाद्दानाच्छुभाशुभा गतिर्भवतीति सामान्यतो गतिनिरूपणायाह - 'दसे' त्यादि, 'निरयगति'त्ति निर्गता अयात् - शुभादिति निरया - नारकाः तेषां गतिर्गम्यमान| त्वान्नरकगतिस्तद्गतिनामकर्मोदयसम्पाद्यो नारकत्वलक्षणः पर्यायविशेषो वेति नरकगतिः, तथा निरयाणां - नारकाणां | विग्रहात् - क्षेत्रविभागानतिक्रम्य गतिः - गमनं निरयविग्रहगतिः स्थितिनिवृत्तिलक्षणा ऋजुवत्ररूपा विहायोगतिकर्म्मापाद्या वेति, एवं तिर्यङ्नरनाकिनामपीति, 'सिद्धिगति' इति सिद्ध्यन्ति - निष्ठितार्था भवन्ति यस्यां सा सिद्धिः सा चासौ गम्यमानत्वात् गतिश्चेति सिद्धिगतिः - लोकाग्रलक्षणा, तथा 'सिद्धविग्गहगहू'त्ति सिद्धस्य - मुक्तस्य विग्रहस्य - आकाश विभागस्यातिक्रमेण गतिः - लोकान्तप्राप्तिः सिद्धविग्रहगतिरिति, विग्रहगतिर्वक्रगतिरप्युच्यते परं सिद्धस्य सा नास्तीति तत्साहचर्यान्नारकादीनामप्यसौ न व्याख्यातेति, अथवा द्वितीयपदैर्नारिकादीनां वक्रगतिरुक्ता, प्रथमैस्तु निवि| शेषणतया पारिशेष्यादृजुगतिः, 'सिडिगइ'त्ति सिद्धौ गमनं निर्विशेषणत्वाच्चानेन सामान्यात्सिद्धिगतिरुक्का, 'सिद्धिविग्गहगइति सिद्धावविग्रहेण - अवक्रेण गमनं सिद्ध्यविग्रहगतिः, अनेन च विशेषापेक्षायां विशिष्टा सिद्धिगतिरुक्ता, सामान्यविशेषविवक्षया चानयोर्भेद इति । सिद्धिगतिर्मुण्डानामेव भवतीति मुण्डनिरूपणायाह - 'दसे' त्यादि, मुण्डयति - अपनयतीति मुण्डः, स च श्रोत्रेन्द्रियादिभेदाद् दशधेति, शेषं सुगमं । मुंडा, दशेति सङ्ख्यानमतस्तद्विधय उच्यन्ते, 'दसे त्यादि, 'परिकम्म' गाहा, परिकर्म-संकलिताद्यनेकविधं गणितज्ञप्रसिद्धं तेन यत्सङ्ख्येयस्य सङ्ख्यानं - परिगणनं तदपि परिकर्मेत्युच्यते १, एवं सर्वत्रेति, 'व्यवहारः' श्रेणीव्यवहारादिः पाटीगणितप्रसिद्धोऽनेकधा २, 'रज्जु'त्ति,
Jain Education International
For Personal & Private Use Only
www.jahelibrary.org