________________
श्रीस्थानागसूत्रवृत्तिः
१०स्थाना. उद्देशः ३ चकाराद्यनुयोगः सू०७४४
॥४९५॥
कल्याणमित्यर्थः, अथवा 'सेयकाले अकम्मं वावि भवई'त्यत्र सेयशब्दो भविष्यदर्थः४, 'सायंकारे'त्ति सायमिति निपातः सत्यार्थस्तस्माद् 'वर्णात्कार' इत्यनेन छान्दसत्वात्कारप्रत्ययः करणं वा कारस्ततः सायंकार इति तदनुयोगो यथा सत्यं तथावचनसद्भावप्रश्नेष्विति, एते च चकारादयो निपातास्तेषामनुयोगभणनं शेषनिपातादिशब्दानुयोगोपलक्षणार्थमिति ५, 'एगत्तेत्ति एकत्वमेकवचनं तदनुयोगो यथा 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग' इत्यत्रैकवचनं सम्यग्दर्शनादीनां समुदितानामेवैकमोक्षमार्गत्वख्यापनार्थ, असमुदितत्वे त्वमोक्षमार्गतेति प्रतिपादनार्थमिति ६, "पुहुत्तेत्ति पृथक्त्वं-भेदो द्विवचनबहुवचने इत्यर्थः, तदनुयोगो यथा 'धम्मत्थिकाये धम्मत्थिकायदेसे धम्मत्थिकायप्पदेसा' इह सूत्रे धर्मास्तिका| यप्रदेशा इत्येतद्बहुवचनं तेषामसङ्ख्यातत्वख्यापनार्थमिति ७, 'संजूहे'त्ति सङ्गतं-युक्तार्थं यूथं-पदानां पदयोर्वा समूहः संयूथं, समास इत्यर्थः, तदनुयोगो यथा 'सम्यग्दर्शनशुद्ध' सम्यग्दर्शनेन सम्यग्दर्शनाय सम्यग्दर्शनाद्वा शुद्धं सम्यग्दर्शनशुद्धमित्यादिरनेकधा इति ८, 'संकामिय'त्ति सङ्कामितं विभक्तिवचनाद्यन्तरतया परिणामितं तदनुयोगो यथा-'साहूणं वंदणेणं नासति पावं असंकिया भावा' इह साधूनामित्येतस्याः षष्ट्याः साधुभ्यः सकाशादित्येवं लक्षणं पञ्चमीत्वेन विप|रिणामं कृत्वा अशङ्किता भावा भवन्तीत्येतत्पदं सम्बन्धनीयं, तथा "अच्छंदा जे न भुंजंति, न से चाइत्ति वुच्चई" इत्यत्र | सूत्रे न स त्यागीत्युच्यते इत्येकवचनस्य बहुवचनतया परिणामं कृत्वा न ते त्यागिन उच्यन्त इत्येवं पदघटना कार्येति ९, 'भिन्न मिति क्रमकालभेदादिभिभिन्न-विसदृशं तदनुयोगो यथा-'तिविहं तिविहेण'मिति सङ्ग्रहमुक्त्वा पुनः 'मणेण'मित्यादिना तिविहेणंति विवृतमिति क्रमभिन्नं, क्रमेण हि तिविहमित्येतन करोम्यादिना विवृत्य ततस्त्रि विधेनेति विव-!
॥४९५॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org