________________
दसविधे सुद्धावाताणुओगे पं० २०-चंकारे १ मंकारे २ पिंकारे ३ सेतंकारे ४ सातंकरे ५ एगत्ते ६ पुधत्ते ७ संजूहे ८
संकामिते ९ मिन्ने १० (सू० ७४४) 'दसे त्यादि, शुद्धा-अनपेक्षितवाक्यार्थी या वाक्-वचनं सूत्रमित्यर्थः तस्या अनुयोगो-विचारः शुद्धवागनुयोगः, सूत्रे च अपुंवद्भावः प्राकृतत्वात् , तत्र चकारादिकायाः शुद्धवाचो योऽनुयोगः स चकारादिरेव व्यपदेश्यः, तत्र 'चंकारे'त्ति अत्रानुस्वारोऽलाक्षणिको यथा 'सुंके सर्णिचरे' इत्यादौ, ततश्चकार इत्यर्थः, तस्य चानुयोगो, यथा चशब्दः समाहारेतरेतरयोगसमुच्चयान्वाचयावधारणपादपूरणाधिकवचनादिष्विति, तत्र "इत्थीओ सयणाणि य” इति, इह सूत्रे चकारः समुच्चयार्थः स्त्रीणां शयनानां चापरिभोग्यतातुल्यतत्वप्रतिपादनार्थः १, 'मंकारे'त्ति मकारानुयोगो यथा 'समणं व मा-४ हणं वा' इति सूत्रे माशब्दो निषेधे, अथवा 'जेणामेव समणे भगवं महावीरे तेणामेवे'त्यत्र सूत्रे जेणामेव इह मकार आगमिक एव, येनैवेत्यनेनैव विवक्षितप्रतीतेरिति २, "पिंकारे'त्ति अकारलोपदर्शनेनानुस्वारागमेन चापिशब्द उक्तस्तदनुयोगो यथा अपिः सम्भावनानिवृत्त्यपेक्षासमुच्चयगर्हाशिष्यामर्षणभूषणप्रश्नेष्विति, तत्र 'एवंपि एगे आसासे' इत्यत्र सूत्रे | एवमपि अन्यथाऽपीति प्रकारान्तरसमुच्चयार्थोऽपिशब्द इति ३, 'सेयंकरे'त्ति इहाप्यंकारोऽलाक्षणिकस्तेन सेकार इति,
तदनुयोगो यथा 'से भिक्खू वे'त्यत्र सूत्रे सेशब्दोऽथार्थः, अथशब्दश्च प्रक्रियाप्रश्नानन्तर्यमङ्गलोपन्यासप्रतिवचनसहै मुच्चयेष्वित्यानन्तर्यार्थः सेशब्द इति, क्वचिदसावित्यर्थः, क्वचित्तस्येत्यर्थः, अथवा 'सेयंकार' इति श्रेय इत्येतस्य करणं |श्रेयस्कारः, श्रेयस उच्चारणमित्यर्थः, तदनुयोगो यथा 'सेयं मे अहिजिउ अज्झयण'मित्यत्र सूत्रे श्रेयः-अतिशयेन प्रशस्यं
Jain Education
and anal
For Personal & Private Use Only
ww.jainelibrary.org