SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ Jain Education त्यादि विशेषणोपादानाद्वा यथा महार्णवा इति, तत्र महार्णव इव या बहूदकत्वात् महार्णवगामिन्यो वा यास्ता वा महार्णवा महानद्यो - गुरुनिम्नगाः अन्तः - मध्ये मासस्य द्विकृत्वो वा द्वौ वारौ त्रिकृत्वो वा - त्रीन्वारान् उत्तरीतुं लङ्घयितुं बाहुजङ्घादिना सन्तरीतुं - साङ्गत्येन नावादिनेत्यर्थः लङ्घयितुमेव, सकृद्वोत्तरी तुमनेकशः सन्तरीतुमिति, अकल्प्यता चात्मसंयमोपघातसम्भवात् शबलचारित्रभावाद्, यत आह - " मासभंतर तिन्नि दगलेवा उ करेमाणे "त्ति [ मासान्त | स्त्रीणि दकलेपनानि नाभिप्रमाणजलोत्तरणानि कुर्वन् ] [ उदकलेपो - नाभिप्रमाणजलावतरणमिति > इह सूत्रे कल्पभाष्यगाथा - " इम उत्ति सुत्तउत्ता १ उद्दिट्ठ नईओ २ गणिय पंचैव ३ । गंगादि वंजियाओ ४ बह्रदय महन्नवाओ ५ ॥ १ ॥ पंचन्हं गहणेणं सेसावि उ सूइया महासलिला ॥” इति [ इमां इति सूत्रोक्ता उद्दिष्टा नद्यः गणिताः पंचैव व्यंजिताः गंगादिकाः बहूदका महार्णवाः ॥ १ ॥ पंचानां ग्रहणेन शेषा अपि महासलिला: सूचिताः ] प्रत्यपायाश्चेह“ओहारमगराइया, घोरा तत्थ उ सावया । सरीरोवाहिमाईया, णावातेणा व कत्थइ ॥ १ ॥” इति [ अपहारः ( मत्स्यः ) मकरादिका घोरास्तत्र श्वापदाः एवं शरीरोपधिस्तेना वा नौस्तेना वा कुत्रचित् ॥ १ ॥ ] अपवादमाह - 'पंचे 'त्यादि, भये - राजप्रत्यनीकादेः सकाशादुपध्याद्यपहारविषये सति १ दुर्भिक्षे वा - भिक्षाऽभावे सति २, 'पव्वहेज' त्ति प्रव्यथतेबाधते अन्तर्भूतकारितार्थत्वाद्वा प्रवाहयेत् कश्चित् प्रत्यनीकः, तत्रैव गङ्गादौ प्रक्षिपेदित्यर्थः ३ 'दओघंसि'त्ति उदकौघे वा गङ्गादीनामुन्मार्गगामित्वेनागच्छति सति तेन प्लाव्यमानानामित्यर्थः, महता च आटोपेनेति शेषः ४, 'अणारिए - सु'त्ति विभक्तिव्यत्ययादनार्यैः - म्लेच्छादिभिर्जीवितचारित्रापहारिभिरभिभूतानामिति शेषः, म्लेच्छेषु वा आगच्छत्स्विति For Personal & Private Use Only jainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy