________________
Jain Education
HO
'दसविहा लोगे' त्यादि, अस्य च पूर्वसूत्रेण सहायमभिसम्बन्धः - पूर्व नवगुणरूक्षाः पुद्गला अनन्ता इत्युक्तं ते चासङ्ख्येयप्रदेशे लोके संमान्तीति लोकस्थितिरतः सैवेहोच्यते इत्येवंसम्बन्धस्यास्य व्याख्या, इहापि संहितादिचर्चः प्रथमाध्ययनवत् केवलं लोकस्य - पञ्चास्तिकायात्मकस्य स्थितिः - स्वभावः लोकस्थितिर्यदित्युद्देशे णमिति वाक्यालङ्कारे 'उद्दात्त'त्ति अपद्राय मृत्वेत्यर्थः, 'तत्थेव'त्ति लोकदेशे गतौ योनौ कुले वा सान्तरं निरन्तरं वौचित्येन भूयो भूयः - पुनः पुनः 'प्रत्याजायन्ते' प्रत्युत्पद्यन्त इत्येवमध्येका लोकस्थितिरिति, अपिशब्द उत्तरवाक्यापेक्षया, अपिः क्वचिन्न दृश्यते, अथ द्वितीया - 'जन्न' मित्यादि, सदा - प्रवाहतोऽनाद्यपर्यवसितं कालं 'समियं'ति निरन्तरं पापं कर्म - ज्ञानावरणादिकं सर्व्वमपि मोक्षविबन्धकत्वेन सर्वस्यापि पापत्वादिति क्रियते बध्यते इत्येवमध्येका अन्येत्यर्थः, सततं कर्म्मबन्धनमिति द्वितीया २, 'मोहणिजे 'त्ति मोहनीयं प्रधानतया भेदेन निर्दिष्टमिति सततं मोहनीयबन्धनं तृतीया ३, जीवाजीवानामजीवजीवत्वाभावश्चतुर्थी ४, त्रसानां स्थावराणां चाव्यवच्छेदः पञ्चमी ५, लोकालोकयोरलोकलोकत्वेनाभवनं षष्ठी ६, तयोरेवान्योऽन्याप्रवेशः सप्तमी ७, 'जाव ताव लोए ताव ताव जीव'त्ति यावलोकस्तावज्जीवाः, यावति क्षेत्रे लोकव्यपदेशस्तावति जीवा इत्यर्थः, 'जाव ताव जीवा ताव ताव लोए'त्ति, इह यावज्जीवास्तावत्तावल्लोको, यावति यावति क्षेत्रे जीवास्तावत्क्षेत्रं लोक इति भावार्थ:, 'जाव तावे' त्यादिवाक्यरचना तु भाषामात्रमित्यष्टमी ८, यावज्जीवादीनां गतिपर्यायस्तावल्लोक इति नवमी ९, सर्वेषु लोकान्तेषु 'अबद्धपासपुटु'त्ति बद्धा - गाढश्लेषाः पार्श्वस्पृष्टाः - छुप्तमात्रा ये न तथा तेऽवद्धपार्श्वस्पृष्टाः रूक्षद्रव्यान्तरेणेति गम्यते तत्सम्पर्कादजातरूक्षपरिणामाः सन्त
For Personal & Private Use Only
Xelibrary.org