________________
णलोकपालावासत्वाद्वैश्रमणकूटमिति । 'सिद्धेगाहा, सिद्धेत्ति सिद्धायतनकूटं तथा निषधपर्वताधिष्ठातृदेवनिवासोपेतं निषधकूटं हरिवर्षस्य क्षेत्रविशेषस्याधिष्ठातृदेवेन स्वीकृतं हरिवर्षकूट, एवं विदेहकूटमपि, हीदेवीनिवासो हीकूट, एवं धृतिकूट, शीतोदा नदी तद्देवीनिवासः शीतोदाकूट, अपरविदेहकूटं विदेहकूटवदिति, रुचकश्चक्रवालपर्वतः तदधिष्ठातृदेवनिवासो रुचककूटमिति । 'नंदणे'त्ति नन्दनवन मेरोः प्रथममेखलायां तत्र नव कूटानि 'नंदण'गाहा, तत्र नन्दनवने पूर्वादिदिक्षु चत्वारि सिद्धायतनानि विदिक्षु चतुश्चतुःपुष्करिणीपरिवृताश्चत्वारः प्रासादावतंसकाः, तत्र पूर्वस्मासिद्धायतनादुत्तरत उत्तरपूर्वस्थप्रासादाद्दक्षिणतो नन्दनकूटं, तत्र देवी मेघङ्करा १, तथा पूर्वसिद्धायतनादेव दक्षिणतो दक्षिणपूर्वप्रासादादुत्तरतो मन्दरकूट, तत्र मेघवती देवी, अनेन क्रमेण शेषाण्यपि यावदष्टमं, देव्यस्तु निषधकूटे सुमेघा| हैमवतकूटे मेघमालिनी रजतकूटे सुवच्छा रुचककूटे वच्छामित्रा सागरचित्रकूटे वैरसेना वैरकूटे बलाहकेति बलकूटं तु मेरोरुत्तरपूर्वस्यां नन्दवने तत्र बलो देव इति । 'मालवंते' इत्यादि, 'सिद्धे'गाहा, माल्यवान्पूर्वोत्तरो गजदन्तपर्वतः
तत्र सिद्धायतनकूट मेरोरुत्तरपूर्वतः, एवं शेषाण्यपि, नवरं सिद्धकूटे भोगादेवी रजतकूटे भोगमालिनी देवी शेषेषु स्व& समाननामानो देवाः, हरिसहकूटं तु नीलवत्सर्वतस्य नीलवत्कूटाद् दक्षिणतः सहस्रप्रमाणं विद्युत्प्रभवति हरिकूटं नन्द
नवनवर्ति बलकूटं च, शेषाणि तु प्रायः पञ्चयोजनशतिकानीति, एवं कच्छादिविजयवैताठ्यकूटान्यपि व्याख्यातानुसारेण ज्ञेयानि, नवरं एवं 'जाव पुक्खलावइंमी'त्यादौ यावत्करणान्महाकच्छाकच्छावतीआवर्तमङ्गलावतपुष्कलेषु सुकच्छवद्वैताब्येषु सिद्धकूटादीनि नव नव कूटानि वाच्यानि, नवरं द्वितीयाष्टमस्थानेऽधिकृतविजयनाम वाच्यमिति, एवं 'व
dain Education
!
For Personal & Private Use Only
AMILainelibrary.org