SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ Jain Education I ज्ञानं वर्त्तते, ततो ज्ञायत इत्यर्थः किम्भूतमित्याह - भाविवस्तुविषयं भव्यं पुरातनवस्तुविषयं पुराणं, चशब्दाद् वर्त्त - मानवस्तुविषयं वर्त्तमानं, 'तीसु वासेसु'त्ति अनागतवर्षत्रयविषयमतीतवर्षत्रयविषयं चेति, तथा शिल्पशतं कालनिधौ वर्त्तते, शिल्पशतं च घट १ लोह २ चित्र ३ वस्त्र ४ नापित ५ शिल्पानां प्रत्येकं विंशतिभेदत्वादिति, तथा कर्माणि च कृषिवाणिज्यादीनि कालनिधाविति प्रक्रमः, एतानि च त्रीणि कालज्ञानशिल्पकर्माणि प्रजायाः - लोकस्य हितकराणि निर्वाहाभ्युदय हेतुत्वेनेति ६ । 'लोह' गाहा, लोहस्य चोत्पत्तिर्महाकाले निधौ भवति-वर्त्तते, तथा आकराणां च लोहादिसत्कानामुत्पत्तिराकरीकरणलक्षणा, एवं रूप्यादीनामुत्पत्तिः सम्बन्धनीया केवलं मणयः - चन्द्रकान्तादयः मुक्ता| मुक्ताफलानि शिलाः-स्फटिकादिकाः प्रवालानि - विद्रुमाणीति । 'जो' गाहा योधानां - शूरपुरुषाणां योत्पत्तिरावरणानां -सन्नाहानां प्रहरणानां खङ्गादीनां सा युद्धनीतिश्च व्यूहरचनादिलक्षणा माणवके निधौ निधिनायके वा भवति, ततः प्रवर्त्तत इति भावः, दण्डेनोपलक्षिता नीतिर्दण्डनीतिश्च - सामादिश्चतुर्विधा, अत एवोक्तमावश्यके - 'सेसा उ दंडनीई माणवगनिहीउ होइ भरहस्स'त्ति ८। 'नट्ट' गाहा, नाव्यं-नृत्यम्, तद्विधिः- तत्करणप्रकारः, नाटकं - चरितानुसारि नाटकलक्षणोपेतं तद्विधिश्च, इह पदद्वये द्वन्द्वः तथा काव्यस्य चतुर्विधस्य धर्मार्थकाममोक्षलक्षण पुरुषार्थप्रतिबद्धग्रन्थस्य १ अ थवा संस्कृतप्राकृतापभ्रंशसङ्कीर्ण भाषानिबद्धस्य २ अथवा समविषमार्द्धसमवृत्तबद्धतया गद्यतया चेति ३ अथवा गद्यपद्यगेयवर्णपदभेदबद्धस्येति उत्पत्तिः - प्रभवः शङ्खे महानिधौ भवति, तथा तूर्याङ्गाणां च मृदङ्गादीनां सर्वेषामिति ९ । 'चक्क 'गाहा, चक्रेष्वष्टासु प्रतिष्ठानं प्रतिष्ठा - अवस्थानं येषां ते तथा, अष्टौ योजनान्युत्सेधः - उच्छ्रयो येषां ते तथा, For Personal & Private Use Only anelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy