SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानागसूत्रवृत्तिः ८स्थाना० उद्देशः३ प्रतिमासर्वजीवसंयमपृथ्व्यः सू०६४५. ६४८ ॥४४०॥ खेत्ते अह जोयणाई बाहल्लेणं पण्णते २ ईसिपम्भाराते णं पुढवीते अट्ठ नामधेजा पं० तं०-ईसिति वा ईसिपब्भाराति वा तणूति वा तणुतणूइ वा सिद्धीति वा सिद्धालतेति वा मुत्तीति वा मुत्तालतेति वा ३ (सू०६४८) 'अहमिए'त्यादि, अष्टावष्टमानि दिनानि यस्यां सा तथा, या ह्यष्टाभिदिनानामष्टकैः पूर्यते तस्यामष्टावष्टमदिनानि भवन्त्येव, तत्र चाष्टावष्टकानि चतुःषष्टिर्भवत्येव, तथा प्रथमाष्टके एका दत्तिर्भोजनस्य पानकस्य च एवं द्वितीये द्वे एवम | ष्टमेऽष्टौ, ततो द्वे शते अष्टाशीत्यधिकै भिक्षाणां सर्वाग्रतो भवत इति, 'अहामुत्ता' 'अहाकप्पा अहामग्गा अहातच्चा सम्मं कारण फासिया पालिया सोहिया तीरिया किट्टिया आराहिया' इति यावत्करणात् दृश्यं 'अणुपालिय'त्ति आत्मसंयमानुकूलतया पालिता इति । तपश्च न सर्वेषामपि संसारिणामिति सम्बन्धात् संसारिणो जीवाधिकारात् सर्वजीवांश्च प्रतिपादयन् 'अट्टविहे'त्यादि सूत्रत्रयमाह, कण्ठ्यं चेदम् , नवरं प्रथमसमयनैरयिका नरकायु प्रथमसमयोदये इतरे वितरस्मिन् एवं सर्वेऽपि १, अनन्तरं ज्ञानिन उक्तास्ते च संयमिनोऽपि भवन्तीतिसम्बन्धात् संयमसूत्रं, तत्र 'संयमेत्ति चारित्रं, स चेह तावद् द्विधा-सरागवीतरागभेदात् , तत्र सरागो द्विधा-सूक्ष्मबादरकषायभेदात् , पुनस्तौ प्रथमाप्रथमसमयमेदाद् द्विधा, एवं चतुर्दा सरागसंयम इति, तत्र प्रथमः समयः प्राप्तौ यस्य स तथा, सूक्ष्मः-किट्टीकृतः सम्परायः -कषायः सञ्जवलनलोभलक्षणो घेद्यमानो यस्मिन् स तथा, सह रागेण-अभिष्वङ्गलक्षणेन यः स सरागः स एव संयमः। सरागस्य पा साधोः संयमो यः स तथा पश्चात्कर्मधारय इत्येकः, द्वितीयोऽयमेव अप्रथमसमयविशेषित इति, अपंच द्विविधोऽपि श्रेणियापेक्षया पुनदैविध्यं लभमानोऽपि न विवक्षित इति चतुर्दा नोक्ता, तथा बादरा-अकिष्टीकृताः। ॥ ४४०॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy