SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ नुभावा एवोच्यन्ते, तथा मनसः शुभता मनःशुभता, साऽपि सातानुभावकारणत्वात्सातानुभाव उच्यते, एवं वचःशुभताऽपि, मनःसुखता वा सातानुभावः, तत्स्वरूपत्वात् तस्याः, एवं वाक्सुखताऽपीति, एवमसातानुभावोऽपि॥सातासाताधिकारात् तद्वतां देवविशेषाणां प्ररूपणाय सूत्रपञ्चकमाह-'महे'त्यादि सुगम, नवरं पूर्व द्वारं येषामस्ति तानि पूर्वद्वारिकाणि, पूर्वस्यां दिशि गम्यते येष्वित्यर्थः, एवं शेषाण्यपि सप्त सप्तेति, इह चार्थे पञ्च मतानि सन्ति, यत आह चंद्रप्रज्ञप्त्याम्-"तत्थ खलु इमाओ पंच पडिवत्तीओ पन्नत्ताओ, तत्थेगे एवमाहंसु-कत्तिआइआ सत्त नक्खत्ता पुवदारिया पन्नत्ता" एवमन्ये मघादीन्यपरे धनिष्ठादीनि इतरेऽश्विन्यादीनि अपरे भरण्यादीनि, दक्षिणापरोत्तरद्वाराणि च सप्त सप्त यथामतं क्रमेणैव समवसेयानीति, 'वयं पुण एवं वयामो-अभियाइया णं सत्त नक्खत्ता पुब्वदारिया पन्नत्ता, एवं दक्षिणद्वारिकादीन्यपि क्रमेणैवेति, तदिह षष्ठं मतमाश्रित्य सूत्राणि प्रवृत्तानि, लोके तु प्रथम मतमाश्रित्यैतदभिधीयते, यदुत-"दहनाद्यमृक्षसप्तकमैन्यां तु मघादिकं च याम्यायाम् । अपरस्यां मैत्रादिकमथ सौम्यां दिशि धनिष्ठादि ॥१॥ भवति गमने नराणामभिमुखमुपसर्पतां शुभप्राप्तिः। अथ पूर्वमृक्षसप्तकमुद्दिष्टं मध्यममुदीच्याम् ॥२॥ पूर्वायामौदीच्यां प्रातीच्या दक्षिणाभिधानायां । याम्यां तु भवति मध्यममपरस्यां यातुराशायाम् ॥ ३॥ येऽतीत्य यान्ति मूढाः परिघाख्यामनिलदहनदिग्रेखाम् । निपतन्ति तेऽचिरादपि दुर्व्यसने निष्फलारम्भाः॥४॥” इति ॥ देवाधिकारादेवनिवासकूटसूत्रद्वयं-'जंबू' इत्यादि कण्ठ्यं, केवलं 'सोमणसे'त्ति सौमनसे गजदन्तके देवकुरूणां प्राचीने 'कूटानि शिखराणि, 'सिडे' गाहा, सिद्धायतनोपलक्षितं सिद्धकूट मेरुप्रत्यासन्नमेवं सर्वगजदन्तकेषु सिद्धायतनानि, शेषाणि ततः Jain Education Theratonal For Personal & Private Use Only www.jainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy