________________
A
ज्ञा आयुःकर्मवियगदर्शनात् , दृष्टान्तजावः कर्मणा स्थ
नैव कर्म जीवादपैति प्रदेश इवाविभागात्तदनपगमादमोक्षस्तेनेदं व्याख्यानं युक्तं (स्पृष्टमात्रतारूपं)॥२॥] तथा-जीवः कर्मणा स्पृष्टो न तु बध्यते, वियुज्यमानत्वात्, कञ्चकनेव तद्वानिति, ततो विन्ध्यसाधुनैतस्मिन्नाचार्यायार्थे निवेदिते यस्तेनाभिहितो-(आचार्यादवधार्यार्थ गोष्ठामाहिलो विन्ध्येनोक्तः,) भद्र! यदुक्तं त्वया जीवात् कर्म न वियुज्यत इति, तत्र प्रत्यक्षबाधिता प्रतिज्ञा आयुःकर्मवियोगात्मकस्य मरणस्य प्रत्यक्षत्वात् , तुरप्यनैकान्तिकोऽन्योऽन्याविभा| गसम्बद्धानामपि क्षीरोदकादीनामुपायतो वियोगदर्शनात्, दृष्टान्तोऽपि न साधनधर्मानुगतः, स्वप्रदेशस्य वियुतत्वासिद्धेस्तद्रपेणानादिरूपत्वाद् भिन्नं च जीवात् कम्र्मेति, यच्चोक्तं-"जीवः कर्मणा स्पृष्टो न बध्यते इत्यादि," तत्र किं प्रतिप्रदेशं स्पृष्टो नभसेवोत त्वङ्माने कझुकेनेव?, यद्याद्यः पक्षः तदा दृष्टान्तदान्तिकयोवैषम्य कञ्चकेन प्रतिप्रदेशमस्पृष्टत्वाद्, अथ द्वितीयः, ततो नापान्तरालगत्यनुयायि कर्म, पर्यन्तवर्तित्वाद्, बाह्याङ्गमलवद्, एवं सर्वो मोक्षभाक् कर्मानुगमरहितत्वात् मुक्तवद्, इत्यादि प्रतिपाद्यमानो यो नैतत्प्रतिपन्नवानुद्घाटितश्चेति सोऽयमबद्धिकधर्माचार्यः इति । उत्सत्तिनगराणि सप्तानां क्रमेण सप्तैव 'होत्थति सामान्येन वर्तमानत्वेऽपि नगराणां तद्विशेषगुणातीतत्वेनातीतनिर्देशः, 'सावत्थी'गाहा, ऋषभपुरं-राजगृहं उलुका नदी तत्तीरवर्त्तिनगरमुल्लुकातीरं "पुरीति नगरी अन्तरंजीति तन्नाम, इह च मकारोऽलाक्षणिकः, 'दसपुर'त्ति अनुस्वारलोपादिति । एते च निवाः संसारे पर्यटन्तः सातासातभोगिनो भविष्यन्तीति तत्स्वरूपं सूत्रद्वयेनाह
सातावेयणिज्जस्स कम्मस्स सत्तविधे अणुभाव पं०, तं०-मणुन्ना सहा मणुण्णा रूवा जाव मणुना फासा मणोसुहता
IRCRACKG
JainEducation mamah
For Personal & Private Use Only
Animjainelibrary.org