________________
यान्योऽन्यमधिकरणोत्सादनेनाभ्युत्थाता भवति यतत इत्यर्थः इत्येकं, एवं गणस्यापीति द्वितीयं, तथा हिंसां-वधं साध्वादेः प्रेक्षते-गवेषयतीति हिंसाप्रेक्षीति तृतीयं, हिंसार्थमेवापभ्राजनार्थ वा 'छिद्राणि'प्रमत्ततादीनि प्रेक्षत इति छिद्रप्रेक्षीति चतुर्थ, अभीक्ष्णमितीह पुनःशब्दार्थः ततश्चाभीक्ष्णमभीक्ष्णं पुनः पुनरित्यर्थः प्रश्ना-अङ्गुष्ठ कुड्यप्रश्नादयः सावद्यानुष्ठानपृच्छा वा त एवायतनान्यसंयमस्य प्रश्नायतनानि प्रयोक्ता भवति, प्रयुत इत्यर्थः इति पञ्चमं । तथा आचार्यो|पाध्यायस्येति समाहारद्वन्द्वः कर्मधारयो वा, ततश्चाचार्यस्योपाध्यायस्य 'गणंसित्ति गणे 'विग्रहस्थानानि' कलहाश्रयाः, आचार्योपाध्यायौ द्वयं वा 'गणे' गणविषये 'आज्ञा' हे साधो! भवतेदं विधेयमित्येवंरूपामादिष्टिं 'धारणां' न विधेयमिदमित्येवंरूपां 'नो'नैव सम्यग्-औचित्येन प्रयोक्ता भवतीति साधवः परस्परं कलहायन्ते असम्यग्नियोगात् दुनियत्रितत्वाच्च, अथवा अनौचित्यनियोक्तारमाचार्यादिकमेव कलहायन्ते इत्येवं सर्वत्रेति, अथवा गूढार्थपदैरगीतार्थस्य पुरतो देशान्तरस्थगीतार्थनिवेदनाय गीतार्थो यदतिचारनिवेदनं करोति साऽऽज्ञा, असकृदालोचनादानेन यत्प्रायश्चित्तविशेषावधारणं सा धारणा, तयोर्न सम्यक् प्रयोक्तेति स कलहभागिति प्रथम, तथा स एव 'आहाराइणियाए'त्ति रत्नानि द्विधा-द्रव्यतो भावतश्च, तत्र द्रव्यतः कर्केतनादीनि भावतो ज्ञानादीनि, तत्र रत्नैः-ज्ञानादिभिर्व्यवहरतीति रा-15 निकः-बृहत्पर्यायो यो यो रात्निको यथारानिकं तद्भावस्तत्ता तया यथारानिकतया-यथाज्येष्ठं कृतिकर्म-वन्दनक विनय एव वैनयिकं तच्च न सम्यक् प्रयोक्ता, अन्तर्भूतिकारितार्थत्वाद्वा प्रयोजयिता भवतीति द्वितीयं, तथा स एव यानि श्रुतस्य पर्यवजातानि-सूत्रार्थप्रकारान् 'धारयति' धारणाविषयीकरोति तानि काले काले-यथावसरं न सम्यग
JainEducation.in
For Personal & Private Use Only
mjanelibrary.org