SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ अगारातो अणगारियं पव्वइए, तं०-मल्ली विदेहरायवरकन्नगा १ पडिबुद्धी इक्खागराया २ चंदच्छाये अंगराया ३ रुप्पी कुणालाधिपती ४ संखे कासीराया ५ अदीणसत्तू कुरुराता ६ जितसत्तू पंचालराया ७ (सू० ५६४) 'बंभदत्ते'त्यादि सुगम ॥ ब्रह्मदत्त उत्तमपुरुष इति तदधिकारात् उत्तमपुरुषविशेषस्थानोसन्नमल्लिवक्तव्यतामाह'मल्ली णमित्यादि, मल्लिरहन् 'अप्पसत्तमें त्ति आत्मना सप्तमः-सप्तानां पूरणः आत्मा वा सप्तमो यस्यासावात्मसप्तमो, मल्लिशब्दस्य स्त्रीलिङ्गत्वेऽप्यर्हच्छब्दापेक्षया पुंनिर्देशः, विदेहजनपदराजस्य वरकन्या विदेहराजवरकन्या १, तथा प्रतिबुद्धिर्नाम्ना इक्ष्वाकुराजः साकेतनिवासी २, चन्द्रच्छायो नाम अङ्गजनपदराजश्चम्पानिवासी ३, रुक्मी नाम कुणालजनपदाधिपतिः श्रावस्तीवास्तव्यः ४, शङ्खो नाम काशीजनपदराजो वाराणसीनिवासी ५, अदीनशत्रुर्नाम्ना कुरुदेशनाथः हस्तिनागपुरवास्तव्यः ६, जितशत्रुर्नाम पञ्चालजनपदराजः काम्पिल्यनगरनायक इति ७, आत्मसप्तमत्वं च भगवतः प्रव्रज्यायामभिहितप्रधानपुरुषप्रव्रज्याग्रहणाभ्युपगमापेक्षयाऽवगन्तव्यं, यतः प्रव्रजितेन तेन ते प्रव्राजिताः, तथा त्रिभिः पुरुषशतैः बाह्यपरिषदा त्रिभिश्व स्त्रीशतैरभ्यन्तरपरिषदाऽसौ संपरिवृतः परिवजित इति ज्ञातेषु श्रूयत इति, उक्तं च"पासो मल्ली य तिहिं तिहिं सएहिं"ति, [पार्थो मल्ली च त्रिभिस्त्रिभिः शतैः] एवमन्येष्वपि विरोधाभासेषु विषयविभागाः सम्भवन्तीति निपुणैर्गवेषणीयाः, शेषं सुगममिति, इत्थं चैतच्चरितं मल्लिज्ञाताध्ययने श्रूयते-जम्बूद्वीपेऽपरविदेहे सलिलावतीविजये वीतशोकायां राजधान्यां महाबलाभिधानोराजा पनिर्बालवयस्यैः सह प्रव्रज्यां प्रतिपेदे, तत्र महाबलस्तैवयस्यानगारैरूचे-यद्भवांस्तपस्तपस्यति तद्वयमपीत्येवं प्रतिपन्नेषु तेषु यदा ते तमनुसरन्तश्चतुर्थादि विदधुस्तदाऽसावष्टमादि JainEducation.inlemail For Personal & Private Use Only sinelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy