________________
चित्रा-विचित्रा रसा-मधुरादयो मनोहारिणो येभ्यः सकाशात् सम्पद्यन्ते ते चित्ररसाः, 'मणियंग'त्ति मणीनां-आभरणभूतानामङ्गभूताः-कारणभूताः मणयोवा अङ्गानि-अवयवा येषां ते मण्यङ्गाः, भूषणसम्पादका इत्यर्थः, 'अणियण'त्ति अनग्नकारकत्वादनग्ना-विशिष्टवस्त्रदायिनः, संज्ञाशब्दो वाऽयमिति, 'कप्परुक्ख'त्ति उक्तव्यतिरिक्तसामान्यकल्पितफलदायित्वेन कल्पना कल्पस्तत्प्रधाना वृक्षाः कल्पवृक्षा इति । 'दंडनीइ'त्ति दण्डनं दण्डः-अपराधिनामनुशासनं, तत्र तस्य वा स एव वा नीतिः-नयो दण्डनीतिः, 'हकारे'त्ति ह इत्यधिक्षेपार्थस्तस्य करणं हक्कारः, अयमर्थः-प्रथमद्वितीयकुलकरकालेऽपराधिनो दण्डो हक्कारमात्र, तेनैवासौ हृतसर्वस्वमिवात्मानं मन्यमानः पुनरपराधस्थाने न प्रवर्त्तत इति तस्य दण्डनीतिता, एवं मा इत्यस्य निषेधार्थस्य करणं-अभिधानं माकारः, तृतीयचतुर्थकुलकरकाले महत्यपराधे माका-| रोदण्डः इतरत्र तु पूर्व एवेति, तथा धिगधिक्षेपार्थ एव तस्य करणं-उच्चारणं धिक्कारः, पञ्चमषष्ठसप्तमकुलकरकाले महापराधे धिक्कारो दण्डो जघन्यमध्यमापराधयोस्तु क्रमेण हकारमाकाराविति, आह च-"पढमबीयाण पढमा तइयचउत्थाण। | अभिनवा बीया । पंचमछट्ठस्स य सत्तमस्स तइया अभिणवा उ॥१॥” इति, [प्रथमद्वितीययोः प्रथमा तृतीयचतुर्थयोरभिनवा द्वितीया । पञ्चमषष्ठसप्तमानां तृतीयाऽभिनवा तु ॥१॥] तथा परिभाषणं परिभाषा-अपराधिनं प्रति कोपाविष्कारेण मा यासीरित्यभिधानं, तथा 'मण्डलबन्धो' मण्डलं-इङ्गितं क्षेत्रं तत्र बन्धो-नास्मात् प्रदेशाद् गन्तव्यमित्येवं वचनलक्षणं, पुरुषमण्डलपरिवारणलक्षणो वा, 'चारक' गुप्तिगृहं 'छविच्छेदों' हस्तपादनासिकादिच्छेदः, इयमनन्तरा चतुर्विधा भरतकाले बभूव, चतसृणामन्त्यानामाद्यद्वयमृषभकाले अन्ये तु भरतकाले इत्यन्ये, आह च
Jain Education.in
For Personal & Private Use Only
OMDinelibrary.org