________________
श्रीस्थाना
ङ्गसूत्र
वृत्तिः
॥ ३८९ ॥
'सत्तविहा बायरे' त्यादि, सूक्ष्माणां न भेदोऽस्ति ततो वादरग्रहणं, भेदश्च दिग्विदिग्भेदात् प्रतीत एवेति । वायवो ह्यदृश्यास्तथापि संस्थानवन्तो भयवन्तश्चेति संस्थानभयसूत्रे, संस्थानानि च प्रतीतानि, तद्विशेषाः प्रतरघनादयोऽन्यतो ज्ञेयाः । 'सत्त भयट्ठाणे त्यादि, भयं - मोहनीयप्रकृतिसमुत्थ आत्मपरिणामस्तस्य स्थानानि - आश्रया भयस्थानानि, तत्र मनुष्यादिकस्य सजातीयादन्यस्मान्मनुष्यादेरेव सकाशाद्यद्भयं तदिहलोकभयं, इहाधिकृत भीतिमतो जातौ लोक इहलोकस्ततो भयमिति व्युत्पत्तिः, तथा विजातीयात् तिर्यग्देवादेः सकाशान्मनुष्यादीनां यद्भयं तत्परलोकभयं, आदीयत इत्यादानं धनं तदर्थं चौरादिभ्यो यद्भयं तदादानभयं, अकस्मादेव - बाह्यनिमित्तानपेक्षं गृहादिष्वेव स्थितस्य रात्र्यादौ भयमकस्माद्भयं वेदना - पीडा तद्भयं वेदनाभयं मरणभयं प्रतीतं, अश्लोकभयं अकीर्त्तिभयं, एवं हि क्रियमाणे महदयशो भवतीति तद्द्भयान्न प्रवर्त्तत इति । भयं च छद्मस्थस्यैव भवति, स च यैः स्थानैर्ज्ञायते तान्याह - 'सत्तहिं ठाणेही 'त्यादि, सप्तभिः स्थानैर्हेतुभूतैः छद्मस्थं जानीयात्, तद्यथा- प्राणान् अतिपातयिता, तेषां कदाचिद् व्यापादनशीलो भवति, इह च प्राणातिपातनमिति वक्तव्येऽपि धर्म्मधर्मिणोरभेदादतिपातयितेति धर्मी निर्दिष्टः, प्राणातिपातनाच्छद्मस्थोऽयमित्यवसीयते, केवली हि क्षीणचारित्रावरणत्वान्निरतिचार संयमत्वादप्रतिषेवित्वान्न कदाचिदपि प्राणानामंतिपातयिता भवतीत्येवं सर्वत्र भावना ज्ञेया, तथा मृषा वादिता भवति, अदत्तमादाता - गृहीता भवति, शब्दादीनास्वादयिता भवति, पूजासत्कारं - पुष्पार्श्वनवस्त्राद्यर्चने अनुबृंहयिता- परेण स्वस्य क्रियमाणस्य तस्यानुमोदयिता, तद्भावे हर्षकारीत्यर्थः, तथेदमाधाकर्मादि सावधं सपापमित्येवं प्रज्ञाप्य तदेव प्रतिषेविता भवति, तथा सामान्यतो नो यथा
Jain Education International
For Personal & Private Use Only
७ स्थाना०
उद्देशः ३ वायुसंस्था
नभयानि
केवलिखा
केवलिव
ज्ञानहेतवः
सू० ५४७५५०
॥ ३८९ ॥
www.jainelibrary.org