________________
नोदसूचकेन 'सब्वधम्मा विचिकिच्छामी'त्यादिपदद्वयेन ज्ञानार्थमपक्रमणमुक्तमिति, तथा 'सर्वधर्मान् जुहोमी ति जुहोतेरदनार्थत्वाद् भक्षणार्थस्य चासेवावृत्तिदर्शनादाचराम्यासेवाम्यनुतिष्ठामीतियावत् तथा एककान्नासेवामीति सर्वेषामासेव्यमानानां विशेषार्थमनासेवितानां च क्षपणवैयावृत्त्यादीनां चारित्रधर्माणामासेवार्थमपक्रमामीत्यनेन पदद्वयेन तथैव चारित्रार्थमपक्रमणमुक्तमिति, उक्तं च-"नाण? दंसणट्ठा चरणहा एवमाइ संकमणं । संभोगट्ठा व पुणो आयरियट्ठा व णायव्वं ॥१॥" इति, [ज्ञानार्थ दर्शनार्थ चरणार्थ इत्याद्यर्थ संक्रमणं संभोगार्थ च पुनः आचार्यार्थ |च ज्ञातव्यं ॥१॥] तत्र ज्ञानार्थ-"सुत्तस्स व अत्थस्स व उभयस्स व कारणा उ संकमणं । वीसज्जियस्स गमणं भीओ
य.नियत्तए कोई ॥१॥” इति, [सूत्रस्य वार्थस्य वोभयस्य वा कारणात् संक्रमणं विसर्जितस्य गमनं भीतो वा निवर्तते |कोऽपि ॥१॥] दर्शनप्रभावकशास्त्रार्थ दर्शनार्थ, चारित्रार्थ यथा-"चरितह देसि दुविहा, (देशे द्विविधा दोषा इत्यर्थः> एसणदोसा य इत्थिदोसा य । (ततो गणापक्रमणं भवति > गच्छंमि य सीयंते आयसमुत्थेहिं दोसेहिं ॥१॥” इति, [[चारित्रार्थ देशे दोषेषु द्विविधास्ते एषणादोषाः स्त्रीदोषाश्च आत्मसमुत्थैर्दोषैर्गच्छे च सीदति ॥१॥] सम्भोगार्थ नाम | यत्रोपसम्पन्नस्ततोऽपि विसम्भोगकारणे सदनलक्षणे सत्यपक्रामतीति, आचार्यार्थ नामाचार्यस्य महाकल्पश्रुतादि श्रुतं नास्त्यतस्तदध्यापनाय शिष्यस्य गणान्तरसङ्क्रमो भवतीति, इह च स्वगुरुं पृष्ट्वैव विसर्जितेनापक्रमितव्यमिति सर्वत्र पृच्छार्थो व्याख्येयः, उक्तकारणवशात् पक्षादिकालापरतोऽविसर्जितोऽपि गच्छेदिति, निष्कारणं गणापक्रमणं त्वविधेयं, यतः-"आयरियाईण भया पच्छित्तभया न सेवइ अकिच्चं । वेयावच्चज्झयणेसु सजए तदुवओगेणं ॥१॥" [आचा
AASARAM
Jain Education takaal
For Personal & Private Use Only
Aanelibrary.org