________________
| 'छविहे पडिक्कमणे' इत्यादि, प्रतिक्रमणं-द्वितीयप्रायश्चित्तभेदलक्षणं मिथ्यादुष्कृतकरणमिति भावः, तत्रोच्चारोदत्सर्ग विधाय यदीर्यापथिकीप्रतिक्रमणं तदुच्चारप्रतिक्रमणं, एवं प्रश्रवणविषयमपीति, उक्कं च-"उच्चारं पासवणं भू
मीए वोसिरित्तु उवउत्तो। ओसरिऊणं तत्तो इरियावहियं पडिक्कमइ ॥२॥ वोसिरइ मत्तगे जइ तो न पडिक्कमइ य मत्तगं जो उ । साहू परिवेई नियमेण पडिक्कमइ सो उ॥२॥" इति [उपयुक्तो भूमौ उच्चारं प्रश्रवणं व्युत्सृज्यापसृत्यर्यापथिका प्रतिकामयेत्ततः॥१॥मात्रके यदि व्युत्सृजति तदा न प्रतिक्राम्यति यस्तु साधुर्मात्रकं परिष्ठापयति स तु नियमात् प्रतिक्राम्यति ॥२॥] 'इत्तरिय'ति इत्वरं-स्वल्पकालिकं दैवसिकरात्रिकादि, 'आवकहियन्ति यावत्कथिक-यावज्जीविकं महाव्रतभक्तपरिज्ञादिरूपं, प्रतिक्रमणत्वं चास्य .विनिवृत्तिलक्षणान्वर्थयोगादिति, 'जकिंचिमिच्छत्ति खेलसिंघानाविधिनिसर्गाभोगानाभोगसहसाकाराद्यसंयमस्वरूपं यत्किश्चिन्मिथ्या-असम्यक् तद्विषयं मिथ्येदमित्येवंप्रतिपत्तिपूर्वकं मिथ्यादुष्कृतकरणं यत्किञ्चिन्मिथ्याप्रतिक्रमणमिति, उक्तं च-"संजमजोगे अन्भुट्टियस्स जं किंचि वितहमायरियं । मिच्छा एयंति वियाणिऊण मिच्छत्ति कायव्वं ॥१॥” इति [संयमयोगेष्वभ्युत्थितेनापि यत् किंचिद्वितथमाचरितं एतन्मिथ्येति. ज्ञात्वा मिथ्येति कर्त्तव्यं ॥१॥] तथा-'खेलं सिंघाणं वा अप्पडिलेहापमन्जिङ तहय । वोसरिय पडिक्कमई तंपिय मिच्छक्कडं देइ ॥२॥' इत्यादि, [श्लेष्माणं संघानं चाप्रतिलिख्याप्रमृज्य तथा च व्युत्सृज्य
प्रतिक्राम्यति तस्यापि मिथ्यादुष्कृतं ददाति ॥२॥] तथा 'सोमणतिए'त्ति 'स्वापनान्तिक' स्वपनस्य-सुप्तिक्रियाया| स्था०६४ | अन्ते-अवसाने भवं स्वापनान्तिकं, सुप्तोत्थिता हि ईर्या प्रतिक्रामति साधव इति, अथवा स्वमो-निद्रावशविकल्पस्त
SHUSHUSHUSHUSSEISSRUSSES
in Education
a
l
For Personal & Private Use Only
www.jainelibrary.org