________________
स्था० ६२
'बंभे' त्यादि, 'बंभलोए 'ति पञ्चमदेवलोके षडेव विमानप्रस्तटाः प्रज्ञप्ताः, आह च - "तेरस ३ बारस छ ५ पंच चेव ६ चत्तारि ७८११ चउसु कप्पेसु । गेवेज्जेसु तिय तिय ३-३-३ एगो य अणुत्तरेसु १ भवे ॥१२॥” त्ति, [ त्रयोदश द्वादश षटू ५ पंच ६ चैव चत्वारः ७-८-११ चतुर्षु कल्पेषु ग्रैवेयकेषु त्रयस्त्रयः एकश्चानुत्तरेषु भवेत् ॥ १॥ ] | १३-१२-६-५-१६-९-१= सर्वेऽपि ६२, तद्यथा - अरजा इत्यादि सुगममेवेति । अनन्तरं विमानवक्तव्यतोकेति तत्प्रस्तावानक्षत्रविमानवक्तव्यतां सूत्रत्रयेणाह - 'चंदस्से' त्यादि व्यक्तं, नवरं 'पुब्वंभाग' त्ति पूर्वमिति - पूर्वभागेनाग्रेणेत्यर्थो भज्यन्ते अप्राप्तेनैव चन्द्रेण सेव्यन्ते - युज्यन्ते इतियावदिति पूर्वभागानि, अनुस्वारश्च प्राकृतत्वादिति, चन्द्रस्याप्रयोगीनि, चन्द्र एतान्यप्राप्तो भुङ्क्ते इति लोकश्रीप्रोक्ता भावनेति, उक्तं च तत्रैव - "पुब्वा तिन्नि य मूलो मह कित्तिय अग्गिमा जोगा” इति, [ त्रीणि च पूर्वाणि मूलं मघा कृत्तिका एतान्यग्रिमयोगानि ] 'समं' स्थूलन्यायमाश्रित्य त्रिंशन्मुहूर्त्तभोग्यं क्षेत्रं- आकाशदेशलक्षणं येषां तानि समक्षेत्राणि, अत एवाह - 'त्रिंशन्मुहूतीनि' त्रिंशतं मुहूर्त्ताश्चन्द्रभोगो येषां तानि तथा, | 'णत्तं भाग'त्ति नक्तंभागानि चन्द्रस्य समयोगीनीत्यर्थः, उक्तं च- " अद्दाऽसेसा साई सयभितमभिई य जेट्ट समजो गा” [ आर्द्राऽश्लेषा स्वातिः शतभिषक् अभिजित् ज्येष्ठा समयोगानि ॥ ] केवलं भरणीस्थाने लोकश्रीसूत्रे अभिजिदुक्तेति मतविशेषो दृश्यत इति, अपार्द्ध-समक्षेत्रापेक्षया अर्द्धमेव क्षेत्रं येषां तानि तथा, अर्द्धक्षेत्रत्वमेवाह - 'पंचदशमुहूर्त्ता नीति, 'उभयभाग'त्ति चन्द्रेणोभयतः - उभयभागाभ्यां पूर्वतः पश्चाच्चेत्यर्थो भज्यन्ते - भुज्यन्ते यानि तान्युभयभागानि, चन्द्रस्य पूर्वतः पृष्ठतश्च भोगमुपगच्छन्तीत्यर्थः इति भावना लोकश्रीभणितेति, उक्तं च - " उत्तरतिन्नि विसाहा पुणब्वसू
Jain Education International
For Personal & Private Use Only
"www.jainelibrary.org