SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ खड्गादिना द्विधाकृत्य भेत्तुं वा शूच्यादिना वा विध्वा, छेदादौ परमाणुत्वहानेः, अग्निकायेन वा समवदग्धुमिति, सुक्ष्मत्वेनादाह्यत्वात्तस्येति ५, बहिस्ताद्वा लोकान्ताद्गमनतायां ६, अलोकस्यापि लोकताऽऽपत्तेरिति ॥ जीवमजीवं कर्तुमित्युक्तमतो जीवपदार्थस्यैव बहुधा प्ररूपणाय "छज्जीवनिकाये'त्यादि सूत्रप्रपञ्चमाह-सुगमश्चार्य, नवरं जीवानां निकाया-राशयो जीवनिकायाः, इह च जीवनिकायानभिधाय यत् पृथिवीकायिकादिशब्दैनिकायवन्त उक्ताः तत्तेपामभेदोपदर्शनार्थ, न ह्येकान्तेन समुदायात् समुदायिनो व्यतिरिच्यन्ते, व्यतिरेकेणाप्रतीयमानत्वादिति ॥ तारकाकारा ग्रहास्तारकग्रहाः, लोके हि नव ग्रहाः प्रसिद्धाः, तत्र च चन्द्रादित्यराहूणामतारकाकारत्वादन्ये षट् तथोक्ता इति, 'सुक्के'त्ति शुक्रः 'बहस्सइ'त्ति बृहस्पतिः 'अंगारको' मङ्गलः 'सनिच्छरेत्ति शनैश्चर इति । संसारसमापन्नकजीवसूत्रे पृथ्वीकायिकादयो जीवतयोक्ताः पूर्वसूत्रे तु निकायत्वेनेति विशेषान्न पुनरुक्ततेति । ज्ञानिसूत्रे अज्ञानिनस्त्रिविधा मिथ्यात्वोपहतज्ञानाः । इन्द्रियसूत्रेऽनिन्द्रियाः-अपर्याप्ताः केवलिनः सिद्धाश्चेति । शरीरसूत्रे यद्यप्यन्तरगतौ कार्मणशरीरिसम्भवस्तद्व्यतिरिक्तस्य तैजसशरीरिणोऽसम्भवस्तथाप्येकतराविवक्षया भेदो व्याख्यातव्यः तथा अशरीरी सिद्ध इति । तृणवनस्पतिकायिका बादरा इत्यर्थो, मूलबीजा-उत्सलकन्दादयः इत्यादि व्याख्यातमेव, नवरं सम्मूछिमाःदग्धभूमौ बीजासत्त्वेऽपि ये तृणादय उत्पद्यन्ते । यथाधिकृताऽध्ययनावतारं प्ररूपिता जीवाः, अथ तेषामेव च ये |पर्यायविशेषा दुर्लभास्तांस्तथैवाह छट्ठाणाई सब्बजीवाणं णो सुलभाई भवंति, तं०-माणुस्सए भवे १ आयरिए खित्ते जम्म २ सुकुले पञ्चायाती ३ के Jain Education For Personal & Private Use Only nelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy