SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानागसूत्रवृत्तिः ॥३५३॥ लद्धिमंतो य ॥१॥ संगहुवग्गहनिरओ कयकरणो पवयणाणुरागी य । एवंविहो उ भणिओ गणसामी जिणवरिंदेहि ॥२॥"सूत्रार्थे निष्णातः प्रियदृढधर्मः अनुवर्त्तनाकुशलः । जातिकुलसंपन्नो गंभीरो लब्धिमांश्च ॥१॥ संग्रहोपग्रहनिरतः कृतकरणः प्रवचनानुरागी च । एवंविध एव भणितो गणस्वामी जिनवरेन्द्रैः॥२॥] इति । अनन्तरं गण|धरगुणा उक्ताः, गणधरकृतमर्यादया च वर्तमानो निर्ग्रन्थो नाज्ञामतिक्रामतीत्येतत् सूत्रद्वयेनाह-तत्र प्रथमं पञ्चस्थानके व्याख्यातमेव तथापि किञ्चिदुच्यते-गृह्णन्-ग्रीवादाववलम्बयन् हस्तवस्त्राञ्चलादौ गृहीत्वा नातिकामत्याज्ञामिति गम्यते, क्षिप्तचित्तां शोकेन दृप्तचित्तां हर्षेण यक्षाविष्टां-देवताधिष्ठितां उन्मादप्राप्तां वातादिना उपसर्गप्राप्तां-तिर्यानुप्यादिना नीयमाना साधिकरणां-कलहयन्तीं ॥ षद्भिः स्थानः वक्ष्यमाणैर्निर्ग्रन्थाः-साधवो निर्ग्रन्थ्यश्च-साध्व्यस्तथाविधनिर्ग्रन्थाभावे मिश्राः सन्तः साधर्मिक-समानधर्मयुक्तं साधुमित्यर्थः 'समायरमाणे ति समाद्रियमाणाः साधर्मिक प्रत्यादरं कुर्वाणाः समाचरन्तो वा-उत्साटनादिव्यवहारविषयीकुर्वन्तो नातिक्रामन्त्याज्ञां-स्त्रीभिः सह विहारस्वाध्यायावस्थानादि न कार्यमित्यादिरूपां, पुष्टालम्बनत्वादिति, 'अंतोहिंतो वत्ति गृहादेमध्यादहिनयन्तो वाशब्दा विकल्पार्थाः, 'बाहिहिंतो वत्ति गृहादेबहिस्तात् निर्बहिः-अत्यन्तबहिर्बहिस्तात्तरां नयन्तः, 'उपेक्षमाणा' इति, उपेक्षा द्विविधाव्यापारोपेक्षा अव्यापारोपेक्षा च, तत्र व्यापारोपेक्षया तमुपेक्षमाणाः, तद्विषयायां छेदनबन्धनादिकायां समयप्रसिद्धक्रियायां व्याप्रियमाणा इत्यर्थः, अव्यापारोपेक्षया च मृतकस्वजनादिभिस्तं सक्रियमाणमुपेक्षमाणाः तत्रोदासीना इत्यर्थः, तथा 'उवासमाण'त्ति पाठान्तरेण 'भयमाण'त्ति वा रात्रिजागरणात्तदुपासनां विदधानाः, 'उवसामेमाण'त्ति ६स्थाना० उद्देश:३ गणधरणगुणा निग्रंथीग्रहणं बहिर्नय नादि सू०४७५४७७ ॥३५३॥ Jain Education mininal For Personal & Private Use Only M ainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy