________________
R
ताभिधायि सूत्रद्वयं । चमरचञ्चा रत्नप्रभापृथिव्यां चमरस्यासुरकुमारराजस्येति, सुधा सभा यस्यां शय्या, उपपातसभा यस्यामुत्पद्यते, अभिषेकसभा यस्यां राज्याभिषेकेणाभिषिच्यते, अलङ्कारिका यस्यामलकियते, व्यवसायसभा यत्र पुस्तकवाचनतो व्यवसायं-तत्त्वनिश्चयं करोति, एताश्च यथाक्रममुत्तरपूर्वस्यां द्रष्टव्या इति । देवनिवासाधिकारान्नक्षत्रसूत्रं । नक्षत्रादिदेवरूपता च सत्त्वानां कर्मापुद्गलचयादेरिति चयादिसूत्रष्टुं । पुद्गलाश्च विविधपरिणामा इति पुद्गलसूत्राणीति, व्याख्या च प्राग्वदध्ययनसमाप्तिं यावत्सुकरैवेति, पञ्चमस्थानकस्य तृतीयः॥
इति श्रीमदभयदेवाचार्यविरचिते स्थानाङ्गविवरणे पञ्चमस्थानाख्यं
पश्चममध्ययनं समाप्तमिति ॥ ग्रन्थाग्रं १६२५ ॥
XORASIGASISHA
८V
RRRrrontent
dain Education International
For Personal & Private Use Only
www.jainelibrary.org