SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ श्रीस्थाना सूत्रवृत्तिः ॥२९४॥ तानां भाण्डानां प्रवेशः स संनिवेशः, तथा शृङ्गाटक-त्रिकोणं रथ्यान्तरं स्थापना > त्रिक-यत्र रथ्यानां त्रयं मिलति चत्वरं-रथ्याष्टकमध्यं चतुष्क-यत्र रथ्याचतुष्टयं चतुर्मुख-देवकुलादि महापथो-राजमार्गः पथो-रथ्यामात्रं, एवंभूतेषु वा स्थानेषु, नगरनिर्द्धमनेषु-तत्क्षालेषु, तथा अगारशब्दसम्बन्धात् श्मशानागारं-पितृवनगृहं शून्यागारं-प्रतीतं तथा गृहशब्दसम्बन्धात् गिरिगृह-पर्वतोपरि गृहं कन्दरगृह-गिरिगुहा गिरिकन्दरं वा शान्तिगृह-यत्र राज्ञां शान्तिकर्म-होमादि क्रियते शैलगृह-पर्वतमुत्कीर्य यत्कृतं, उपस्थानगृहं-आस्थानमण्डपोऽथवा शैलोपस्थानगृह-पाषाणमण्डपः भवनगृह-यत्र कुटुम्बिनो वास्तव्या भवन्तीति, अथवा शान्त्यादिविशेषितानि भवनानि गृहाणि च, तत्र भवनं-चतुःशालादि गृहं तु-अपवरकादिमानं तेषु सन्निक्षिप्तानि-न्यस्तानि दृष्ट्वा क्षुभ्येद् अदृष्टपूर्वतया विस्मयाल्लोभाद्वेति, 'इच्चेएही'त्यादि निगमनमिति । केवलज्ञानदर्शनं तु न स्कन्नीयात् केवली वा याथात्म्येन वस्तुदर्शनात् क्षीणमोहनीयत्वेन भयविस्मयलोभाद्यभावेन अतिगम्भीरत्वाच्चेति, अत आह-पंचहीं'त्यादि सुगममिति । तथा नारकादिशरीराणि बीभत्सान्युदाराणि च दृष्ट्वाऽपि न केवलदर्शनं स्कनातीति शरीरप्ररूपणाय 'नेरइयाण'मित्यादि सूत्रप्रपञ्चः णेरइयाणं सरीरगा पंचवन्ना पंचरसा पं० सं०-किण्हा जाव सुकिल्ला, तित्ता जाव मधुरा, एवं निरंतरं जाव वेमाणियाणं । पंच सरीरगा पं० तं०-ओरालिते वेउव्विते आहारते तेयते कम्मते, ओरालितसरीरे पंचवन्ने पंचरसे पं० तं० किण्हे जाव सुकिल्ले तित्ते जाव महुरे, एवं जाव कम्मगसरीरे, सब्वेवि णं बादरबोंदिधरा कलेवरा पंचवन्ना पंचरसा दुगंधा अट्ठफासा (सू० ३९५) SARASॐ559 ५ स्थाना० उद्देशः १ प्रतिमा स्थावरा अवधिकेवलानुत्पत्युत्पत्ती सू० ३९२३९५ ।।२९४॥ Sain Education Interna For Personal & Private Use Only www.janelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy