SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ Jain Education नहरोमसिंग अमिलाइछगणगोमुत्ते । खीरद हिमाइयाणं पंचेंदियतिरियपरिभोगे ॥ ६ ॥ [ संस्तारकपात्रदण्ड कक्षौमिककार्पासपीठफलकादि औषध भैषज्यानि चैवमादि तरुषु प्रयोजनं ॥ ५ ॥ चर्मास्थिदन्तनखरोमशृंगाम्लान (अव्यादि) | गोमयगोमूत्रैः क्षीरदध्यादिकैः पंचेन्द्रियतिर्यक्परिभोगः ॥ ६ ॥ ] एवं विकलेन्द्रियमनुष्यदेवानामप्युपग्रहकारिता वाच्या, तथा गणो- गच्छः तस्य चोपग्राहिता - 'एकस्स कओ धम्मो' इत्यादिगाथापूगादवसेया, तथा "गुरुपरिवारो गच्छो तत्थ वसंताण निज्जरा विउला । विणयाउ तहा सारणमाईहिं न दोसपडिवत्ती ॥ १ ॥ अन्नोन्नावेक्खाए जोगंमि तहिं तहिं पयट्टंतो । नियमेण गच्छवासी असंगपयसाहगो नेओ ॥ २ ॥” इति, [ गुरुपरिवारो गच्छस्तत्र वसतां विपुला निर्जरा विनयात्तथा सारणादिभिर्न दोषप्रतिपत्तिः ॥ १ ॥ अन्योऽन्यापेक्षया योगे तत्र तत्र प्रवर्त्तमानः गच्छवासी नियमेनासंगपदसाधको ज्ञेयः ॥ २ ॥ ] तथा राजा - नरपतिस्तस्य धर्म्मसहायकत्वं दुष्टेभ्यः साधुरक्षणाद्, उक्तं च लोकिकैः - “क्षुद्रलोकाकुले लोके, धर्म्म कुर्युः कथं हि ते । क्षान्ता दान्ता अहंतारश्चेद्राजा तान्न रक्षति ॥ १ ॥ तथा 'अराजके हि लोकेऽस्मिन् सर्वतो विद्रुते भयात् । रक्षार्थमस्य सर्वस्य, राजानमसृजत् प्रभुः ॥ २ ॥” इति, तथा गृहपतिः -शय्यादाता, सोऽपि निश्रास्थानं, स्थानदानेन संयमोपकारित्वात्, तदुक्तम् — “धृतिस्तेन दत्ता मतिस्तेन दत्ता, गतिस्तेन दत्ता सुखं तेन दत्तम् । गुणश्रीसमालिङ्गितेभ्यो वरेभ्यो, मुनिभ्यो मुदा येन दत्तो निवासः ॥ १ ॥ " तथा " जो देइ उवस्सयं जइवराण तवनियमजोगजुत्ताणं । तेणं दिन्ना वत्थन्नपाणसयणासणविगप्पा ॥ २ ॥” इति [ यो ददात्युपाश्रयं यतिवरेभ्यस्तपोमियमयोगयुक्तेभ्यः । तेन दत्ता वस्त्रान्नपानशयनासनविकल्पाः ॥ १ ॥ ] तथा शरीरं - कायः, अस्य च ध For Personal & Private Use Only Camelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy