SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ भवति, तानि च समापीकरणलत्युपक्रम बनाइनेनामित योगो-व्यापारस्तेन सम्बन्धो वा सोऽणुयोगोऽनुयोगो वेति, आह च-"अहवा जमत्थओ थोवपच्छभावेहि सुयमणुं तस्स । अभिधेये वावारो जोगो तेणं व संबंधो॥१॥" ति, तस्य द्वाराणीव द्वाराणि-तत्प्रवेशमुखानि, एकस्थानकाध्ययनपुरस्यार्थाधिगमोपाया इत्यर्थः, नगरदृष्टान्तश्चात्र, यथा हि अकृतद्वारं नगरमनगरमेव भवति, कृतैकद्वारमपि दुरधिगम कार्यातिपत्तये च, चतुर्मूलद्वारं तु प्रतिद्वारानुगतं सुखाधिगम कार्यानतिपत्तये च, एवमेकस्थानकाध्ययनपुरमप्याधिगमोपायद्वारशून्यमशक्याधिगमं भवति, एकद्वारानुगतमपि च दुरधिगम, सप्रभेदचतुर्दारानुद्वारानुगतं तु सु| खाधिगममित्यतः फलवान् द्वारोपन्यास इति ५ । तानि च द्वित्रिद्विद्धिभेदानि क्रमेण भवन्तीति तद्भेदाः ६ । निरुक्तिस्तु उपक्रमणमुपक्रम इति भावसाधनः शास्त्रस्य न्यासदेशसमीपीकरणलक्षणः, उपक्रम्यते वाऽनेन गुरुवाग्योगेने|त्युपक्रम इति करणसाधनः, उपक्रम्यतेऽस्मिन्निति वा शिष्यश्रवणभावे सतीत्युपक्रम इत्यधिकरणसाधनः, उपक्रम्यतेs|स्मादिति वा विनीतविनेयविनयादित्युपक्रम इत्यपादान इति, एवं निक्षेपणं निक्षिप्यते वाऽनेनास्मिन्नस्मादिति वा निक्षेपो न्यासः स्थापनेति पर्यायाः, एवमनुगमनमनुगमः अनुगम्यतेऽनेनास्मिन्नस्मादिति वाऽनुगमः-सूत्रस्य न्यासानुकूलः परिच्छेदः, एवं नयनं नयः नीयतेऽनेनास्मिन्नस्मादिति वा नयः-अनन्तधर्मात्मकस्य वस्तुन एकांशपरिच्छेद इत्यर्थः ७। अथैषामुपक्रमादिद्वाराणामित्थंक्रमे किं प्रयोजनमिति !, अत्रोच्यते, न ह्यनुपक्रान्तं सदसमीपीभूतं निक्षिप्यते, नचानि १ अथवा यदर्थतः स्तोकपधाद्भावाभ्यः सूत्रमणु तस्य । अभिधेये व्यापारो योगस्तेन वा संबन्धः ॥ १॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy