________________
श्रीस्थानाङ्गसूत्रवृत्तिः
॥ ४० ॥
कंखवत्तिया चेव ३३, दो किरियाओ पं० तं०-- पिज्जवत्तिया चेव दोसवत्तिया चेव ३४, पेज्जवत्तिया किरिया दुबिहा पं० तं० - मायावत्तिया चेव लोभवत्तिया चेव ३५, दोसवत्तिया किरिया दुविहा पं० तं० — कोहे चेव माणे चेव ३६, ( सू० ६० )
आकाशं व्योम नोआकाशम् - तदन्यद्धर्मास्तिकायादि, धर्मः - धर्मास्तिकायो गत्युपष्टम्भणुणः तदन्योऽधर्मः - अधमस्तिकायः स्थित्युपष्टम्भगुणः । सविपक्षबन्धादितत्त्वसूत्राणि चत्वारि प्राग्वदिति । बन्धादयश्च क्रियायां सत्यामात्मनो भवन्तीति क्रियानिरूपणायाह - 'दो किरिये 'त्यादि सूत्राणि षटूत्रिंशत्, करणं क्रिया क्रियत इति वा क्रिया, ते च द्वे प्रज्ञप्ते - प्ररूपिते जिनैः, तत्र जीवस्य क्रिया - व्यापारो जीवक्रिया, तथा अजीवस्य - पुद्गलसमुदायस्य यत्कर्म्मतया | परिणमनं सा अजीवक्रियेति, इह चियशब्दस्य चैवशब्दस्य च पाठान्तरे प्राकृतत्वाद्विर्भाव इति चैवेत्ययं च समुच्चयमात्र एव प्रतीयते, अपिचेत्यादिवदिति, 'जीवकिरिये त्यादि, सम्यक्त्वं तत्त्वश्रद्धानं तदेव जीवव्यापारत्वात् क्रिया सम्यक्त्वक्रिया, एवं मिथ्यात्वक्रियाऽपि, नवरं मिथ्यात्वम् - अतत्त्वश्रद्धानं तदपि जीवव्यापार एवेति, अथवा सम्य|ग्दर्शनमिथ्यात्वयोः सतोर्वे भवतः ते सम्यक्त्वमिथ्यात्वक्रिये इति ॥ तत्र 'ईरियावहिय' लि-ईरणमीर्या - गमनं तद्विशिष्टः पन्था ईर्यापथस्तत्र भवा ऐर्यापथिकी, व्युत्पत्तिमात्रमिदं प्रवृत्तिनिमित्तं तु यत्केवलयोगप्रत्ययमुपशान्तमोहादित्रयस्य सातवेदनीयकर्म्मतया अजीवस्य पुद्गलराशेर्भवनं सा ऐर्यापथिकी क्रिया, इह जीवव्यापारेऽप्यजीवप्रधानत्वविवक्ष
Jain Educationtional
For Personal & Private Use Only
२ स्थानकाध्ययने
अजीवबन्धादिक्रि
याणां द्वैविध्यं
॥ ४० ॥
jainelibrary.org