________________
ASSIS
श्रीस्थानागसूत्रवृत्तिः
| नित्यं निरवयव निष्क्रियं सर्वगं च सामान्यमेवास्ति, न विशेषो, निःसामान्यत्वात् , इह यन्निःसामान्यं तन्नास्ति यथा खर| विषाणं, यच्चास्ति न तन्निःसामान्यं यथा घट इति, तथा सामान्यादन्येऽनन्ये वा विशेषाः प्रतिपद्येरन् ?, यद्यन्ये ननूक्तमसन्तस्ते निःसामान्यत्वात् खपुष्पवत् , अथानन्ये तदा सामान्यमात्रमेव, तत्र वा विशेषोपचारः, न चोपचारेणार्थतत्त्वं चिन्त्यत इति, आह च-"एक निच्चं निरवयवमक्कियं सव्वगं च सामन्नं । निस्सामन्नत्ताओ नत्थि विसेसो खपुप्फ व ॥१॥ तथा-सामन्नाओ विसेसो अन्नोऽनन्नो व होज? जइ अन्नो । सो नत्थि खपुष्फ पिवऽणन्नो सामन्नमेव तयं ॥ २॥" ति, तदेवं सामान्यनयाभिप्रायेणात्मादीनामेकत्वमेव । विशेषनयमतेन तु तेषामनेकत्वमेव, स हि ब्रूते-विशेषेभ्यः सामान्यं भिन्नमभिन्नं वा स्यात् ?, न भिन्नमत्यन्तानुपलम्भात् खपुष्पवत् , तथा-न सामान्यं विशेषेभ्यो भिन्नमस्ति, दाहपाकस्नानपानावगाहवाहदोहादिसर्वसंव्यवहाराभावात् खरविषाणवत्, अथाभिन्नं तदा वि
शेषमात्रं वस्तु न नाम सामान्यमस्ति, तेषु वा सामान्यमात्रोपचार इति, न चोपचारेणार्थतत्त्वं चिन्त्यत इति, आह ४ीच-"न विसेसत्थंतरभूयमथि सामन्नमाह ववहारो । उवलंभव्ववहाराभावाओ खरविसाणं व ॥१॥” इति, तदे|वमात्मादीनामनेकत्वमेवेति । ननु पक्षद्वयेऽपि युक्तिसम्भवात् किं तत्त्वं प्रतिपत्तव्यमिति ?, उच्यते, स्यादेकत्वं स्याद
१ स्थानकाध्ययने ज्ञानक्रियासामान्यविशेषवादाः
१ एकं नित्यं निरवयवमक्रियं सर्वगं च सामान्यम् । निस्सामान्यत्वात् नास्ति विशेषः खपुष्पवत् ॥१॥ सामान्याद्विशेषः अन्योऽनन्यो वा भवेत् ? यद्यन्यः । स नास्ति खपुष्पमिव अनन्यः सामान्यमेव तकत् ॥२॥ २न विशेषादर्थान्तरभूतमस्ति सामान्यमाह व्यवहारः । उपलम्भव्यवहाराभावात् खरवि
षाणमिव ॥१॥
Jain Education i
ntonal
For Personal & Private Use Only
wwjainelibrary.org