________________
क्रियानयस्तु
यतः स्त्रीभक प्रत्येकं पु
|भिहितः, अधुना कथञ्चित्प्रत्यवस्थानावसरे भणितमपि नयद्वारमनुयोगद्वारक्रमायातमिति पुनर्विशेषेणोच्यते-तत्र नैग-12 मादयः सप्त नयाः, ते च ज्ञाननये क्रियानये चान्तर्भवन्तीति ताभ्यामध्ययनमिदं विचार्यते-तत्र ज्ञानचरणात्मकेऽस्मि-18 नध्ययने ज्ञाननयो ज्ञानमेव प्रधानमिच्छति, ज्ञानाधीनत्वात् सकलपुरुषार्थसिद्धेः, यतः-"विज्ञप्तिः फलदा पुंसां, न क्रिया फलदा मता । मिथ्याज्ञानात् प्रवृत्तस्य, फलप्राप्तेरसम्भवाद् ॥१॥” इत्यत ऐहिकामुष्मिकफलार्थिना ज्ञान एव2 | यत्नो विधेय इति । क्रियानयस्तु क्रियामेवेच्छति, तस्या एव पुरुषार्थसिद्धावुपयुज्यमानत्वात्, तथा चोक्तम्-"क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात् सुखितो भवेत् ॥१॥” इत्यत ऐहिकामुष्मिकफलार्थिना क्रियैव कार्येति । जिनमते तु नानयोः प्रत्येक पुरुषार्थसाधनता, यत उक्तम्-"हयं नाणं कियाहीणं, हया अन्नाणओ किया। पासंतो पंगुलो दड्डो, धावमाणो य अंधओ ॥१॥"त्ति, संयोग एव चानयोः फलसाधकत्वं, |यत उक्तम्-"संजोगसिद्धीइ फलं वयंति, नहु एगचक्केण रहो पयाइ । अंधो य पंगू य वणे समिच्चा, ते संपउत्ता नगरं | पविद्वा ॥१॥” इति ॥ भाष्यकृताऽप्युक्तम्-"नाणाहीणं सव्वं नाणणओ भणति किं च किरिवाए? । किरियाए करणनओ तदुभयगाहो य सम्मत्तं ॥१॥" ति, अथवा सप्तापि नैगमादयः सामान्यनये विशेषनवे चान्तर्भवन्ति, तत्र
सामान्यनयः प्रक्रान्ताध्ययनोक्तानामात्मादिपदार्थानामेकत्वमेवाभिमन्यते, सामान्यवादित्वात् तस्य, स हि ब्रूते-एक स्था०७ ता
१हतं ज्ञानं क्रियाहीनं हताशानतः क्रिया । पश्यन् पङ्गुर्दग्धो धाश्चान्धः ॥१॥ संयोगसिद्धेः फलं वदन्ति, नैवैकचक्रेण रथः प्रयाति । अन्धश्च पहश्च वने समेत्य तौ संप्रयुक्ती नगरं प्रविष्टौ ॥१॥ ज्ञानाधीनं सर्व ज्ञाननयो भणति किंच क्रियया १ । कियायाः करणनयस्तदुभयप्रहार सम्यक्त्वम् ॥१॥
KISSARKARIES
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org