________________
द्रव्यं - सचित्ताचित्तमिश्रभेदं स्थानं गुणपर्यायाश्रयत्वात् ततः कर्मधारय इति, तथा क्षेत्रम् - आकाशं तच्च तत् स्थानं च द्रव्याणामाश्रयत्वात् क्षेत्रस्थानं, तथा अद्धा - कालः, स च स्थानं, यतो भवस्थितिः कायस्थितिश्च भवकालः कायकालश्चाभिधीयते, स्थितिश्च स्थानमेवेति, 'उड'त्ति ऊर्ध्वतया स्थानम् - अवस्थानं पुरुषस्य ऊर्ध्वस्थानं कायोत्सर्ग इति, इह स्थानशब्दः क्रियावचनः, एवं निषदनत्वग्वर्त्तनादिस्थानमपि द्रष्टव्यम्, ऊर्ध्वशब्दस्योपलक्षणत्वादिति, तथा उपरतिः - विरतिः सैव स्थानं विविधगुणानामाश्रयत्वात्, विशेषार्थो वेह स्थानशब्दः, ततो विरतेः स्थानं-विशेषो विरतिस्थानं, तच्च देशविरतिः सर्वविरतिर्वेति, तथा वसतिः स्थानमुच्यते, स्थीयते तस्मिन्नितिकृत्वेति तथा संयमस्य स्थानं संयमस्थानम्, इह स्थानशब्दो भेदार्थः, संयमस्य शुद्धिप्रकर्षापकर्षकृतो विशेषः संयमस्थानं, तथा प्रगृह्यते-उपादीयते आदेयवचनत्वाद्यः स प्रग्रहो - प्राह्मवाक्यो नायक इत्यर्थः, स च लौकिको लोकोत्तरश्चेति, तत्र लौकिको राजयुवराजमहत्तरामात्यकुमाररूपो, लोकोत्तरश्चाचार्योपाध्यायप्रवर्त्तकस्थविरगणावच्छेदकरूप इति, तस्य स्थानं पदं प्रग्रहस्थानमिति तथा योधानां स्थानम् - आलीढप्रत्यालीढवैशाख मण्डलसमपादरूपं शरीरन्यासविशेषात्मकं योधस्थानं, तथा 'अचल'त्ति अचलतालक्षणो धर्मः सादिसपर्यवसितादिरूपः स्थानमचलतास्थानं, तथा 'गणण'त्ति गणनाविषयं स्थानमेकव्यादिशीर्षप्रहेलिकापर्यन्तं गणनास्थानं, तथा सन्धानं द्रव्यतश्छिन्नस्य कशुकादेरच्छिन्नस्य तु पक्ष्मोत्पद्यमानतत्वादेरिति, भावतस्तु छिन्नस्य प्रशस्ताप्रशस्तभावस्य पुनः सन्धानमच्छिन्नस्य त्वपरापरोत्पद्यमानस्य प्रशस्ताप्रशस्त भावस्य |सन्धानं तदेव स्थानं-वस्तुनः संहतत्वेनावस्थानं सन्धानस्थानं, 'भावे 'ति भावानाम् - औदयिकादीनां स्थानम् - अवस्थि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org