SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Jain Education F द्रव्यतो नद्यादीनां समोऽनपायश्च भूभागो भौतादिप्रवचनं वा, द्रव्यतीर्थता त्वस्याप्रधानत्वाद्, अप्रधानत्वं च भावत| स्तरणीयस्य संसारसागरस्य तेन तरीतुमशक्यत्वात्, सावद्यत्वादस्येति, भावतीर्थं तु सङ्घो, यतो ज्ञानादिभावेन तद्विपक्षादज्ञानादितो भवाच्च भावभूतात् तारयतीति, आह च - "जं गाणदंसणचरित्तभावओ तव्विवक्खभावाओ । भवभावओ य तारेइ तेण तं भावओ तित्थं ॥ १ ॥” ति, त्रिषु वा - क्रोधाग्निदाहोपशमलोभतृष्णानिरासकर्म्ममलापनयनलक्षणेषु ज्ञानादिलक्षणेषु वा अर्थेषु तिष्ठतीति त्रिस्थं, प्राकृतत्वात् तित्थं, आह च - " दाहोवसमादिसु वा जं तिसु थियमहव दंसणाईसुं । तो तित्थं सङ्घो च्चिय उभयं च विसेसणविसेसं ॥ १ ॥” ति, 'विशेषणविशेष्य' मिति तीर्थ सङ्घ इति सङ्घो वा तीर्थमिति, त्रयो वा क्रोधाग्निदाहोपशमादयोऽर्थाः फलानि यस्य तत् त्र्यर्थ, तित्थंति पूर्ववत्, आह च - " कोहग्गिदाहस मणादओ व ते चैव तिन्नि जस्सऽत्था । होइ तियत्थं तित्थं तमत्थसद्दो फलत्थोऽयं ॥ १॥" अथवा त्रयो ज्ञानादयोऽर्था:वस्तूनि यस्य तत्र्यर्थम् आह च - "अहवा सम्मदंसणनाणचरित्ताइं तिन्नि जस्सत्था । तं तित्थं पुव्वोदियमिहमत्थो वत्थुपज्जाओ ॥ १ ॥ " ति ॥ तत्र तीर्थे सति सिद्धाः - निर्वृतास्तीर्थसिद्धा ऋषभसेनगणधरादिवत् तेषां वर्गणेति १, तथा १ यत् ज्ञानदर्शनचारित्रभावतस्तद्विपक्षभावात् । भवभावतञ्च तारयति तेन तद्भावतस्तीर्थम् ॥ १ ॥ २ दाहोपशमादिषु वा यत्रिषु स्थितमथवा दर्शनादिषु । ततस्तीर्थं सङ्घ एवोभयं च विशेषणविशेष्यम् ॥ १ ॥ ३ क्रोधाग्निदाहशमनादयो वा ते चैव त्रयो यस्यार्थाः । भवति व्यर्थे तीर्थं तत् अर्थशब्दः फलार्थोऽयम् ॥ १ ॥ ४ अथवा सम्यग्दर्शनज्ञानचारित्राणि त्रयो यस्यार्थाः । तत् तीर्थं पूर्वोदितमिहार्थो वस्तुपर्यायः ॥ १ ॥ For Personal & Private Use Only ainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy