SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ | जीवव्यापारो यः स वाग्योगः २, तथौदारिकादिशरीरव्यापाराहृतमनोद्रव्यसमूहसाचिव्यात् जीवव्यापारो यः स मनो-योग इति ३, ततो यथैव कायादिकरणयुक्तस्यात्मनो वीर्यपरिणतिर्योग उच्यते तथैव लेश्यापीति, अन्ये तु व्याचक्षते - 'कर्म्मनिस्यन्दो लेश्ये 'ति, सा च द्रव्यभावभेदात् द्विधा, तत्र द्रव्यलेश्या कृष्णादिद्रव्याण्येव, भावलेश्या तु तज्जन्यो जीवपरिणाम इति, इयं च षट्प्रकारा जम्बूफलखादकपुरुषषदृष्टान्ताद् ग्रामघातकचौरपुरुषषदृष्टान्ताद्वा आगमप्रसिद्धादवसेयेति, तत्सूत्राणि सुगमानि, नवरं कृष्णवर्णद्रव्यसाचिव्यात् जाताऽशुभपरिणामरूपा कृष्णा सा लेश्या येषां ते तथा, एवं शेषाण्यपि पदानि, नवरं नीला ईषत्सुन्दर रूपैवमिति-अनेनैव क्रमेण यावत्करणात् 'एगा कावोयलेस्साण' मित्यादि सूत्रत्रयं दृश्यं, तत्र कपोतस्य - पक्षिविशेषस्य वर्णेन तुल्यानि यानि द्रव्याणि धूम्राणि इत्यर्थः, तत्साहाय्याज्जाता कापोतलेश्या मनाक् शुभतरा सा लेश्या येषां ते तथा, तेज:- अग्निज्वाला तद्वर्णानि यानि द्रव्याणि लोहितानीत्यर्थः, तत्साचिव्याज्जाता तेजोलेश्या शुभस्वभावा, पद्मगर्भवर्णानि यानि द्रव्याणि पीतानीत्यर्थः तत्साचिव्याज्जाता पद्मलेश्या शुभतरा, शुक्लवर्णद्रव्यजनिता शुक्ला, अत्यन्तशुभेति, एतासां च विशेषतः स्वरूपं लेश्याध्ययनादवसेयमिति, ' एवं जस्स जइति नारकाणामिव यस्यासुरादेर्या यावत्यो लेश्यास्तदुद्देशेन तद्वर्गणैकत्वं वाच्यं, 'भवणे' त्यादिना तल्लेश्यापरिमाणमाह, अत्र सङ्ग्रहणी - "काऊ नीला किव्हा लेसाओ तिन्नि होंति नरएसुं । तइयाए काउनीला [ पृथिव्यामि - त्यर्थः ] नीला किण्हा य रिट्ठाए ॥ १ ॥ [ पञ्चम्यामित्यर्थः ] किण्हा नीला काऊ तेजलेसा य भवणवंतरिया । १ कापोता नीला कृष्णा लेश्यास्तिस्रो भवन्ति नरकेषु । तृतीयायां कापोता नीला (च) नीला कृष्णा च रिष्ठायाम् ॥१॥ कृष्णानीलाकापोतातेजोलेश्याश्च भवनव्यन्तराः । Jain Education International For Personal & Private Use Only Mainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy