________________
दुर्ग्रह इति संसर्गजत्वादेव नोक्त इति, रसः पञ्चधा, तत्र श्लेष्मनाशकृत् तिक्तः १ वैशद्यच्छेदनकृत्कटुकः २ अन्नरुचिस्तम्भनकृत्कषायः ३. आश्रवणक्केदनकृदम्लः ४ ह्रादनबृंहणकृन्मधुरः ५ संसर्गजो लवण इति नोक्त इति, स्पर्शोऽष्टविधः, तत्र | कर्कशः कठिनोऽनमनलक्षणः १ यावत्करणात् मृद्वादयः षडन्ये, तत्र मृदुः सन्नतिलक्षणः २ गुरुरधोगमनहेतुः ३ लघुः प्रायस्तिर्यगूर्ध्वगमनहेतुः ४ शीतो वैशद्यकृत् स्तम्भनस्वभावः ५ उष्णो मार्दवपाककृत् ६ स्निग्धः संयोगे सति संयोगिनां बन्धकारणं ७ रूक्षस्तथैवाबन्धकारणमिति ८ । उक्ता पुद्गलधर्माणामेकता, इदानीं पुद्गलालिङ्गितजीवाप्रशस्तधर्माणामष्टादशानां पापस्थानकाभिधानानां 'एंगे पाणाइवाए' । इत्यादिना ग्रन्थेन 'दंसणसले' इत्येतदन्तेन तामेवाह
एगे पाणातिवाए जाव एगे परिग्गहे । एगे कोधे जाव लोभे । एगे पेज्जे एगे दोसे जाव एगे परपरिवाए । एगा अरतिरती । एगे मायामोसे । एगे मिच्छादंसणसले । ( सू० ४८ ) । एगे पाणाइवायवेरमणे जाव परि०वेरमणे । एगे कोहविवेगे जाव मिच्छादंसणसह विवेगे ( सू० ४९ )
तंत्र प्राणाः-उच्छ्वासादयस्तेषामतिपातनं - प्राणवता सह वियोजनं प्राणातिपातो हिंसेत्यर्थः, उक्तञ्च – “पञ्चेन्द्रियाणि त्रिविधं बलं च, उच्छ्वासनिःश्वासमधान्यदायुः । प्राणा दशैते भगवद्भिरुक्तास्तेषां वियोजीकरणं तु हिंसा ॥ १ ॥” इति स च प्राणातिपातो द्रव्यभावभेदात् द्विविधो, विनाशपरितापसक्लेशभेदात् त्रिविधो वा, आह च - " तपज्जायवि णासो दुक्खुप्पाओ य संकिलेसो य । एस वहो जिणभणिओ वज्जेयव्वो पयत्तेणं ॥१॥"ति, अथवा मनोवाक्कायैः करण१ तत्पर्याय विनाशो दुःखोत्पादश्च संक्लेशश्च । एष वधो जिनैर्भणितो बर्जयितव्यः प्रयत्नेन ॥ १ ॥
Jain Educational
For Personal & Private Use Only
jainelibrary.org