SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानागसूत्रवृत्तिः १ स्थानाध्ययने अजीव धर्माः ॥ २५॥ तत्र शब्दादिसूत्राणि सुगमानि, नवरं शब्दयते-अभिधीयते अनेनेति शब्दो-ध्वनिः श्रोत्रेन्द्रियविषयः, रूप्यते-अवलोक्यत इति रूपम्-आकारश्चक्षुर्विषयः, घ्रायते-सिङ्घयते इति गन्धो-घ्राणविषयः, रस्यते-आस्वाद्यते इति रसः-रसनेन्द्रियविषयः, स्पृश्यते-छुप्यत इति स्पर्शः-स्पर्शनकरणविषयः, शब्दानां चैकत्वं सामान्यतः सजातीयविजातीयव्यावृत्तरूपापेक्षया वा भावनीयं । शब्दभेदावाह-'सुब्भिसद्दित्ति शुभशब्दा मनोज्ञा इत्यर्थः, 'दुभित्ति अशुभो मनोज्ञो यो न भवतीति, एवं च शब्दान्तरमत्रान्तर्भूतमवसेयम् , एवं रूपव्याख्यानेऽपि, सुरूपादयश्चतुर्दश शुक्लान्ता रूपभेदाः, तत्र सुरूपं-मनोज्ञरूपमितररूपमिति। दीर्घम्-आयततरं इस्वं-तदितरद्, वृत्तादयः पञ्च स्कन्धसंस्थानभेदाः, तत्र वृत्तसं|स्थानं मोदकवत् , तच्च प्रतरघनभेदात् द्विधा, पुनः प्रत्येकं समविषमप्रदेशावगाढमिति चतुर्द्धा, एवं च शेषाण्यपि, 'तंसे'त्ति तिस्रोऽस्रयः-कोटयो यस्मिंस्तत् व्यत्रं-त्रिकोणम् , 'चतुरंसे'त्ति चतस्रोऽस्रयो यस्य तत्तथा-चतुष्कोणमित्यर्थः, तथा 'पिहुले'त्ति पृथुलं-विस्तीर्णम् , अन्यत्र पुनरिह स्थाने आयतमभिधीयते, तदेव चेह दीर्घहस्वपृथुलशब्दैविभज्योक्तम् , आयतधर्मत्वादेषां, तच्चायतं प्रतरघनश्रेणिभेदात् त्रिधा, पुनरेकै समविषमप्रदेशमिति पोढा, यच्चायतभेदयोरपि हस्वदीर्घयोरादावभिधानं तद्वत्तादिषु संस्थानेष्वायतस्य प्रायो वृत्तिदर्शनार्थ, तथाहि-दीर्घायतः स्तंभो वृत्तस्यस्रः चतुरस्रश्चेत्यादि भावनीयम् , विचित्रत्वाद्वा सूत्रगतेरेवमुपन्यास इति, 'परिमंडले'त्ति परिमण्डलसंस्थानं वलयाकारं प्रत| रघनभेदाद् द्विविधमिति, रूपभेदो वर्णः, स च कृष्णादिः पञ्चधा प्रतीत एव, नवरं हारिद्रः-पीतः, कपिशादयस्तु संसर्गजा | इति न तेषामुपन्यासः, गन्धो द्वेधा-सुरभिर्दुरभिश्च, तत्र सौमुख्यकृत्सुरभिर्वमुख्यकृत् दुरभिः, साधारणपरिणामोऽस्पष्टो Jain Educational For Personal & Private Use Only ainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy