________________
|-अस्ति जीवोऽस्ति घट इत्यभ्युपगमे जीवघटयोरस्तित्वमविशेषेण वर्तते ततस्तयोरेकत्वं प्राप्तमभिन्नशब्दविषयत्वादिति व्यंसको हेतुः, घटशब्दविषयघटस्वरूपवत्, अथास्तित्वं जीवादौ न वर्तते ततो जीवाद्यभावः स्यादस्तित्वाभावादिति व्यंसकः प्रतिवादिनो व्यामोहकत्वादिति, तथा 'लूसए'त्ति लूषयति-मुष्णाति व्यंसकापादितमनिष्टमिति लूषको हेतुः, स एव शाकटिको, यथा-धूर्त्तान्तरशिक्षितेन हि शाकटिकेन तेन याचितोऽसौ धूर्त तर्हि देहि मे तर्पणालोडिकामिति, ततो धूर्तेनोक्ता स्वभार्या-देह्यस्मै सत्कूनालोड्येति, ताञ्च तथा कुर्वन्तीं तद्भार्या गृहीत्वाऽसौ प्रस्थितोऽवादीच्च धूर्तमभि-मदीयेयं तर्पणमिति सत्कूनालोडयतीति तर्पणालोडिकेति भवतैव दत्तत्वादिति, स चायं यदि जीवघटयोरस्तित्ववृत्त्या एकत्वं सम्भावयसि तदा सर्वभावानामेकत्वं स्यात्, सर्वेष्यप्यस्तित्ववृत्तेरविशेषात् , न चैवमिति, इहास्तित्ववृत्तेरविशेषादित्ययं लूषको जीवघटयोरेकत्वापादनलक्षणस्याभावापत्तिलक्षणस्य वाऽनिष्टस्य परापादितस्यानेन लूषितत्वादिति, अथवेति हेतोः प्रकारान्तरताद्योतको विकल्पार्थो हिनोति-गमयति प्रमेयमर्थं स वा हीयते-अधिगम्यते अनेनेति हेतुः-प्रमेयस्य प्रमितौ कारणं प्रमाणमित्यर्थः, स चतुर्विधः स्वरूपादिभेदात्, तत्र 'पञ्चक्खे'त्ति अश्नाति अश्नुते-| व्याप्नोत्यानित्यक्षः-आत्मा तं प्रति यद्वर्त्तते ज्ञानं तत्प्रत्यक्षं निश्चयतोऽवधिमनःपर्यायकेवलानि, अक्षाणि वेन्द्रियाणि प्रति यत्तत्प्रत्यक्षं व्यवहारतस्तच्चक्षुरादिप्रभवमिति, लक्षणमिदमस्य-"अपरोक्षतयाऽर्थस्य, ग्राहकं ज्ञानमीदृशम् । प्रत्यक्षमितरत् ज्ञेयं, परोक्षं ग्रहणेक्षया ॥१॥" ग्रहणापेक्षयेति भावः, अन्विति-लिङ्गदर्शनसम्बन्धानुस्मरणयोः पश्चान्मानं -ज्ञानमनुमानम्, एतल्लक्षणमिदम्-“साध्याविनाभुवो लिङ्गात्, साध्यनिश्चायकं स्मृतम् । अनुमानं तदभ्रान्तं, प्रमा-1
HARASHTRA
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org