________________
तस्य विवक्षया सकलस्वार्थसमाप्तेः वरप्रधानप्रयोजनप्रापणप्रवणप्राणितत्वात् तृतीये स्वपरार्थकारी, स च स्थविरकल्पिकः विहितानुष्ठानतः स्वार्थ करत्वाद्विधिवत् सिद्धान्तदेशनातश्च परार्थसम्पादकत्वात्, चतुर्थे तूभयानुपकारी, स च मुग्धमतिः कश्चिद् यथाच्छन्दो वेति, एवं लौकिकपुरुषोऽपि योजनीयः । उभयानुपकारी च दुर्गत एव स्यादिति दुर्ग - तसूत्रं, दुर्गतो- दरिद्रः, पूर्व धनविहीनत्वात् ज्ञानादिरत्नविहीनत्वाद्वा पश्चादपि तथैव दुर्गत एवेति, अथवा दुर्गतो द्रव्यतः पुनदुर्गतो भावत इति प्रथमः, एवमन्ये त्रयो, नवरं सुगतो द्रव्यतो धनी भावतो ज्ञानादिगुणवानिति । दुर्गतः कोऽपि व्रती स्यादिति दुर्ब्रतसूत्रं, दुर्गतो-दरिद्रः दुर्ब्रतः - असम्यग्वतोऽथवा दुर्व्ययः - आयनिरपेक्षव्ययः कुस्थानव्ययो वेत्येकः, अन्यो दुर्गतः सन् सुब्रतो - निरतिचारनियमः, सुव्ययो वौचित्यप्रवृत्तेरिति, इतरौ प्रतीतौ । दुर्गतस्तथैव दुष्प्रत्यानन्दः - उपकृतेन कृतमुपकारं यो नाभिमन्यते यस्तु मन्यते तं स सुप्रत्यानन्द इति । दुर्गतो- दरिद्रः सन् दुर्गतिं गमिष्यतीति दुर्गतिगामीत्येवमन्येऽपि, नवरं सुगतिं गमिष्यतीति सुगतिगामी, सुगतः - ईश्वर इत्यर्थः । दुर्गतस्तथैव दुर्गतिं गतः यात्राजन कुपिततन्मारणप्रवृत्तद्रमकवत् एवमन्ये त्रयः । तम इव तमः पूर्वमज्ञानरूपत्वादप्रकाशत्वाद्वा पश्चादपि तम एवेत्येकः, अन्यस्तु तमः पूर्वं पश्चाज्ज्योतिरिव ज्योतिरुपार्जितज्ञानत्वात् प्रसिद्धिप्राप्तत्वाद्वा, शेषौ सुज्ञानौ । तमः - कुकर्मकारितया मलिनस्वभावस्तमः - अज्ञातं बलं सामर्थ्य यस्य तमः - अन्धकारं वा तदेव तत्र वा बलं यस्य स तथा, असदाचारवानज्ञानी रात्रिचरो वा चौरादिरित्येकः, तथा तमस्तथैव ज्योतिः - ज्ञानं बलं यस्य आदित्यादिप्रकाशो वा ज्योतिस्तदेव तत्र वा बलं यस्य स तथा, अयं चासदाचारो ज्ञानवान् दिनचारी वा चौरादिरिति द्वितीयो,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org